________________
धर्मसंग्रहे अधिकारः
३
॥ ८८ ॥
Jain Education In
धारा पंचमहवयधारा अट्ठारससहस्ससीलंगधारा अक्खुआयारचरित्ता ते सवे सिरसा मणसा मत्थएण वंदामि" अर्द्धतृतीयेषु द्वीपसमुद्रेषु जम्बूद्वीपधातकीखण्डपुष्करार्द्धषु, समुद्रग्रहणं कदाचिच्चारणर्थ्यादयः समुद्रेsपि प्राप्यन्त इति ज्ञापनार्थं, तत्रापि पञ्चदशसु भरतैरावतमहाविदेहपञ्चकरूपासु कर्मभूमिषु, यावन्तः केचित्साधवो - मुनयः, उपकरणमाश्रित्य 'रजोहरणगोच्छकपतद्ब्रहधारकाः' तत्र रजोहरणं- धर्मध्वजो गोच्छकपतद्रहशब्दाभ्यां च "पत्तं पत्ताबंधो पायठवणं च पायकेसरिया । पडलाइ रयत्ताणं च गोच्छओ पायनिज्जोगो ॥ १ ॥ इति क्रमेण 'आद्यन्तग्रहणे मध्यग्रहण' मितिन्यायात् सप्तविधपात्रनिर्योगपरिग्रहस्तस्य धारकाः, तथा पञ्चमहात्रतेषु धारा-प्रकर्षो येषां ते पञ्चमहाव्रतधाराः, तदेकाङ्गविकलप्रत्येकबुद्धादिसंग्रहायाह-'अष्टादशशीलाङ्गसहस्रधा| रका:' तथाहि - केचिद्भगवन्तो रजोहरणादिधारिणो न भवन्त्यपि । अष्टादशशीलाङ्गसहस्राणि चैवम् - "जोए ३ करणे ३ सण्णा ४ इंदिय ५ पुढवाइ १० समणधम्मो १० अ । सीलंगसहस्साणं, अट्ठारसगस्स निष्पत्ती ॥ १ ॥” भा| वना त्वेवम्-मणसा न करेइ आहारसण्णामुको सोइंद्रियसंवुडो खंतिसंपन्नो पुढविकायारंभं, एवं मद्दवसंपन्नो एवं | समणधम्मेण दस लद्धा, एवं आउतेउवाउवणस्सइबितिचउपनिंदियऽजीवेहिं सयं, एवं पंचहिं इंदिएहिं पंचसया, चउहिं सण्णाहिं दो सहस्सा, मणवयकाएहिं छ सहस्सा लद्वा, कारावणेणवि छ, अणुमइएवि छ, एवं अट्ठारसहस्सा । तथा 'अक्षताकारचरित्रा' आकारः - खरूपं, अक्षताकारम् - अतीचारैरप्रतिहतस्वरूपं चरित्रं - चारित्रं येषां ते तथा अक्खुअत्ति आर्षत्वादुकारः, 'तान् सर्वान्' गच्छगतगच्छनिर्गत भेदान् 'शिरसा' उत्तमाङ्गेन 'मनसा' अन्तः
For Private & Personal Use Only
प्रतिक्रमण व्याख्या
॥ ८८ ॥
www.jainelibrary.org