________________
मिथ्यात्वमूलकं अतस्तत्परिहरणायाह-मिच्छत्तं' इत्यादि, मिथ्यात्वम्-अतत्त्वरुचिः, सम्यक्त्वं तत्त्वप्रीतिः, एतदङ्गत्वादेवाह-'अबोधि' इत्यादि, अबोधिः-जिनधर्मानवाप्तिर्मिथ्यात्वस्य कार्य, बोधिस्तु सम्यक्त्वस्येति, मिथ्यात्वं चामार्गो मोक्षस्येत्यन्यस्याप्यमार्गस्य परिहाराय सामान्येनाह-'अमग्गं' इत्यादि, अमार्गो-मिथ्यात्व-18 कषायादि, मार्गस्तु सम्यग्दर्शनप्रशमादिरिति । उक्तपदानां पाठक्रमज्ञानाय पुनरियं संग्रहगाथा-"संजम बंभे कप्पे नाणे किरिआइ सम्म बोहीसु । मग्गे सविपक्खेसुं परिन्न उवसंपया कमसो॥१॥” इदानीं छद्मस्थत्वा-18 दशेषदोषशुद्ध्यर्थमाह-जं संभरामि जं च न संभरामि'त्ति यत्किञ्चित्स्मरामि, यच्च छद्मस्थत्वादनाभोगान्नेति, तथा यत्प्रतिक्रमामि आभोगाद्विदितं, यच्च न प्रतिक्रमामि, सूक्ष्ममविदितं, अनेन प्रकारेण यः कश्चिदतिचारः 'तस्स सबस्स देवसिअस्स अइयारस्स पडिकमामि'त्ति कण्ठ्यं । इत्थं प्रतिक्रम्य पुनरप्यकुशलप्रवृत्तिपरिहारायात्मानमालोचयन्नाह-समणोऽहमित्यादि श्रमणोऽहं, तत्रापि न चरकादिः, किं तर्हि ?-'संयतः' सामस्त्येन यतः, इदानीं 'विरतो' निवृत्तोऽतीतस्यैष्यस्य च निन्दनसंवरणद्वारेणात एवाह-प्रतिहतं' इदानीमकरणतया,15 'प्रत्याख्यातं' अतीतं निन्दया एष्यमकरणतया पापकर्म येनेति, निदानस्य भवमूलत्वेन प्रधानदोषत्वात्तद्राहि-18 तत्वमात्मनो भेदेनाह-'अनिदानो' निदानरहितः, सकलगुणमूलभूतगुणयुक्ततां दर्शयन्नाह-'दृष्टिसंपन्नः' सम्यग्दर्शनयुक्त इत्यर्थः, द्रव्यवन्दनपरिहारायाह-मायामृषाविवर्जितो' मायागर्भमृषावादपरिहारवान्, एवंभूतः सन् किमित्याह-"अड्डाइजेसु दीवसमुद्देसु पनरससु कम्मभूमीसु जावंत केवि साहू रयहरणगुच्छपडिग्गह
Jain Education
ITOMw.jainelibrary.org
a
For Private Personal Use Only
l