________________
धर्मसंग्रहे अधिकारः ३
॥ ८६ ॥
Jain Education
सङ्घदुक्खप्पहीणमग्गं, इत्थं ठिआ जीवा सिज्यंति वुज्झंति मुच्चंति परिनिव्वायंति सङ्घदुक्खाणमंतं करेंति, तं धम्मं | सद्दहामि पत्तिआमि रोएमि फासेमि अणुपालेमि, तं धम्मं सद्दहंतो पत्तिअंतो रोअंतो फासतो अणुपालतो तस्स धम्मस्स अन्भुट्टिओमि आराहणाए विरओमि विराहणाए” व्याख्या- 'इदमेवेति' सामायिकादिप्रत्याख्यानपर्यन्तं | द्वादशाङ्गं वा गणिपिटकं निर्ग्रन्था - बाह्याभ्यन्तरग्रन्थनिर्गताः साधवो निग्रन्थानामिदं नैर्ग्रन्थं 'प्रावचन' मिति प्रकर्षे | णाभिविधिनोच्यन्ते जीवादयो यस्मिंस्तत्प्रावचनम्, तत् किंखरूपमित्यत्राह सयो हितं सत्यं, नयदर्शनमपि स्वविष| ये सत्यं भवत्येवेत्यत आह- 'अणुत्तरं 'ति नास्त्युत्तरमस्येति तत्, यथावस्थितसमस्तवस्तुप्रतिपादकत्वादुत्तममित्यर्थः, अन्यदप्येवं भविष्यतीत्यत आह-'केवलिअं' केवलमद्वितीयं नापरमित्थंभूतमित्यर्थः केवलमेव कैवलिकं, तथा 'प्रतिपूर्ण' अपवर्गप्रापकैर्गुणैर्भृतमित्यर्थः, सर्वनयमयत्वात् सर्वविषयं वा, 'नेयाउअं'ति नयनशीलं नैयायिकं, मोक्षगमकमित्यर्थः, न्यायोपपन्नं वा, तदप्यसंशुद्धं भविष्यतीत्यत आह-'संसुद्धंति' सामस्त्येन शुद्धं संसुद्धं, कषच्छेदतापकोटिशुद्धत्वात् एकान्ताकलङ्कमित्यर्थः एवंभूतमपि कथञ्चित्तत्वाभाव्यान्नालं भवनिबन्धनमायादिशल्यनिकर्त्तनाय भविष्यतीत्यत आह- 'सल्लगत्तणं'ति कृन्ततीति कर्त्तनं शल्यानि - मायादीनि तेषां कर्त्तनं शल्यकर्त्तनं, परमतनिषेधार्थं त्वाह- 'सिद्धिमग्गं मुत्तिमग्गं' ति सेधनं सिद्धिः - हितार्थप्राप्तिस्तस्या मार्गः सिद्धिमार्गस्तत्, मोचनं मुक्ति:- अहितार्थकर्मविच्युतिस्तस्या मार्गो मुक्तिमार्गः, तद्धितार्थप्राप्सिद्वारेणाहितकर्मविच्युतिद्वारेण च मोक्षसाधनमिति भावना, आर्षत्वान्नपुंसकत्वम्, अनेन केवलज्ञानादिविकलाः सकर्मकाश्च मुक्ता इति दुर्नयनिरासमाह,
For Private & Personal Use Only
प्रतिक्रमण व्याख्या
॥ ८६ ॥
www.jainelibrary.org