SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte कृतस्तस्य मिथ्या दुष्कृतमिति क्रिया, एवमन्यत्रापि योज्या, 'व्यत्याम्रेडितं' अन्यान्यशास्त्रपल्लवमीलनेन कोलिकपायसवत् कृतं, 'हीनाक्षरं' अक्षरन्यूनं ' अत्यक्षरं' अधिकाक्षरं 'पदहीनं' त्यक्तपदं 'विनयहीनं' अकृतोचितविनयं 'घोषहीनं 'उदात्तादिघोषहीनं, 'योगरहितं' सम्यगकृतयोगोद्वहनं, 'सुष्ठु दत्तं' गुरुणा सुष्ठुशब्दस्य प्राच्यभाषयाऽधिकार्थत्वादल्पश्रुतार्हपात्रस्य बहुतरं दत्तमित्यर्थः 'दुष्ठु प्रतीच्छितं' शिष्येण कलुषान्तरात्मनेति 'अकाले' अनाध्यायकाले कृतः स्वाध्यायः (काले न कृतः) अस्वाध्यायिके स्वाध्यायितमिति, तत्र स्वाध्याय एव खाध्यायिकं, न खाध्यायिकमखाध्यायिकं तत्कारणमपि च रुधिरादि कारणे कार्योपचारात् अखाध्यायिकमुच्यते, तच्च अस्वाध्यायिकनिर्युक्तेरवसेयमिति, तत्र अनाध्याये खाध्यायितं - स्वाध्यायः कृतः, तथा खाध्यायिके - अस्वाध्यायिकविपर्ययलक्षणे न खाध्यायितं, इत्थमाशातनया योऽतिचारः कृतस्तस्य मिथ्या दुष्कृतमिति । एवमेकादिभिस्त्रयस्त्रिंशत्पर्यन्तैः स्थानैरतिचारप्रतिक्रमणं सूत्रे भणितं, एवमन्यदपि ज्ञेयम्, यथा चतुस्त्रिंशताऽर्हदतिशयैः, पञ्चत्रिंशता बुद्धवचनातिशयैः, ष‌ट्त्रिंशतोत्तराध्ययनैरेवं यावच्छततारेण शतभिषजेति समवायाङ्गानुसारेण ज्ञेयं । एवमतिचारविशुद्धिं कृत्वा नमस्कारमाह-अथवा प्राक्तनाशुभसेवनायाः प्रतिक्रान्तोऽपुनःकरणाय प्रतिक्रामन्नमस्कारपूर्वकमाह"नमो चडवीसाए तित्थयराणं उस भाइमहावीरपज्जवसाणाणं" नमश्चतुर्विंशतये तीर्थकरेभ्य ऋषभादिमहावीरपर्य| वसानेभ्यः । इत्थं नमस्कृत्य प्रस्तुतस्य प्रवचनस्य गुणव्यावर्णनायाह - "इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केव| लिअं पडिपुण्णं णेआउअं संसुद्धं सलगत्तणं सिद्धिमग्गं मुत्तिमग्गं निज्जाणमग्गं निवाणमग्गं अवितहमविसंधिं For Private & Personal Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy