________________
तिक्रमण व्याख्या
धर्मसंग्रहेत्मिका वितथप्ररूपणया, सदेवमनुजासुरलोकस्याशातनया सप्तद्वीपोदध्यात्मको लोकः प्रजापतिकृतः प्रकृ- अधिकारः तिपुरुषयोोंगे वेति, अत्र देवग्रहणाद्देवोपलक्षित ऊर्दुलोको गम्यते, एवं मनुजग्रहणात् मर्त्यलोकोऽसुरग्रह
णाचाधोलोक इति, सर्वप्राणिभूतजीवसत्त्वानामाशातनयेति, तत्र प्राणा-द्वीन्द्रियादयो व्यक्तोच्छ्वासा अभूवन
भवन्ति भविष्यन्तीति चेति भूतानि-पृथिव्यादयो जीवन्तीति जीवा:-आयुःकर्मानुभवयुक्ताः सर्व एवेत्यर्थः ॥८५॥
सत्त्वाः सांसारिकसंसारातीतभेदाः, एकार्थिका वा ध्वनयो नानादेशजविनेयानुग्रहार्थमुपात्ता इति, आशातना तु वितथप्ररूपणादिनैव, तथाहि-अङ्गुष्ठपर्वमात्रो द्वीन्द्रियाद्यात्मेति, पृथिव्यादयस्तु अजीवा एव, स्पन्दनाचैतन्यकार्यानुपलब्धेः, जीवाःक्षणिका इति, सत्त्वाः संसारिणोऽङ्गुष्ठपर्वमात्रा एव, संसारातीता न सन्त्येव, अपि तु-प्रध्मातदीपकल्पो मोक्षः, इत्यादिकेषाश्चिन्मतानि, कालस्याशातना तु नास्त्येव काल इति, कालपरिणतिर्वा विश्वमित्यादिका, श्रुताशातना तु-'को आउरस्स कालो! मइलंबरधोयणे य को कालो। जइ मुक्खहेउ नाणं को कालो ? सस्सऽकालो वा॥१॥” 'काया वया य ते चिअ' इत्यादिना प्रारधर्मद्वारेण श्रुताशातनोक्ता, इह तु खतनश्रुतविषयेति न पुनरुक्तं । श्रुतदेवताऽऽशातना तु श्रुतदेवता न विद्यतेऽकिश्चित्करी चेत्यादिका, | वाचनाचार्याशातना तु निर्दुःखसुखाः प्रभूतान् वारान् वन्दनं दापयन्तीत्यादिका । तथा 'जं वाइद्ध'मित्यादि एतानि चतुर्दश सूत्राणि श्रुतक्रियाकालगोचरत्वान्न पौनरुक्तभाञ्जीति । तथा दोषदुष्टं श्रुतं यदधीतं, तद्यथाव्याविद्धं विपर्यस्तं कृतं, विपर्यस्तसूत्रप्रोतरत्नमालावदनेन प्रकारेण या आशातना तया हेतुभूतया योऽतिचारः
॥४५॥
Jain Education Internationa
For Private & Personel Use Only
www.jainelibrary.org