SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ॥८४॥ न्यकृतत्वाविर्भावनं १८, निजोपधिभाण्डं मायया निकुते १९, अशुभपरिणामात् सत्यभाषकस्यापि मृषा- साधुप्रतिभाषीति सभायां प्रकाशनं २०, अक्षीणकलहत्वं २१, विश्रम्भोत्पादनेन परधनापहरणं २२, एवं परदार- क्रमण लोभनं २३, अकुमारत्वेऽप्यात्मनः कुमारत्वभणनं २४, एवमब्रह्मचारित्वेऽपि ब्रह्मचारिताप्रकाशनं २५, येन-18 व्याख्या श्वर्य प्रापितस्तस्यैव सत्के द्रव्ये लोभकरणं २६, यत्प्रभावेण ख्यातिं गतस्तस्य कथञ्चिदन्तरायकरणं २७, राजसेनाधिपराष्ट्रचिन्तकादेर्बहुजननायकस्य हननं २८, अपश्यतोऽपि देवान् पश्यामीति मायया भणनं २९, अव-18 ज्ञया देवेष्वहमेव देव इति प्रत्याख्यापनमिति ३० । एतैर्महामोहजनकैयतिजनसंभवत्पः कश्चित् कृतैः कैश्चि|चिकीर्षितैरन्यैः पुनर्मनस्यपि चिन्तितः। 'एकत्रिंशता सिद्धादिगुणैः' आदौ गुणा आदिगुणाः, युगपद्भाविनोन क्रमभाविनः, सिद्धानामादिगुणाः सिद्धादिगुणास्तैः, ते चामी-पञ्चपञ्चद्विपश्चाष्टत्रिभेदानां संस्थानवर्णगन्धरसस्पर्शवेदानामभावोऽशरीरत्वमसङ्गत्वं अजन्मित्वं चेत्येकत्रिंशत्, अथवा ज्ञानावरणीयादिकर्मणां पञ्चनवद्विद्विचतुर्द्विद्विपञ्चविधानां क्षयादेकत्रिंशत् सिद्धादिगुणाः, तत्र मोहस्य दर्शनमोहचारित्रमोहभेदान्नान्नस्तु शुभाशुभभेदाद्वैविध्यं । 'द्वात्रिंशता योगसंग्रहैः' प्रशस्तमनोवाक्कायव्यापारसंग्रहनिमित्तैरालोचनादिप्रकारैः, ते चामीशिष्येणाचार्याय सम्यगालोचनादानं १, आचार्यस्यापि शिष्यदत्ताया आलोचनाया अन्यस्याकथनता २, आपत्सु दृढधर्मता ३, ऐहिकादिफलानपेक्षोपधानकारिता ४, ग्रहणासेवनारूपद्विविधशिक्षासेविता ५, निष्पतिकर्मशरीरता ६, तपसि परजनातापिता ७, अलोभता ८, परीषहादिजय ९, आर्जवं १०, संयमव्रतविषये शुचिता ॥८४॥ Jain Education Interne For Private & Personal Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy