SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte भावणा २४ विमुक्त्ती २५” इति । 'एकोनत्रिंशता पापश्रुतप्रसङ्गैः' पापोपादानानि श्रुतानि पापश्रुतानि तेषां | प्रसङ्गाः - तदासेवनरूपाः, तानि चामूनि-अष्टौ निमित्ताङ्गानि तत्र दिव्यं व्यन्तराट्टहासादिविषयं १, उत्पातं | रुधिरवृष्ट्यादिविषयं २, आन्तरिक्षं ग्रहभेदादिविषयं ३, भौमं भूमिविकारदर्शनादेवास्येदं भविष्यतीत्यादिविषयं ४, अङ्गमङ्गचेष्टाविषयं ५, स्वरं षड्जादिखरविषयं ६, व्यञ्जनं-मषादि तद्विषयं ७, लक्षणं- लाञ्छनं रेखादि तद्विषयं ८ पुनर्दित्र्याद्येकैकं त्रिविधं, सूत्रं वृत्तिर्वार्त्तिकं चेत्येवमष्टौ त्रिगुणाश्चतुर्विंशतिभेदाः, तथा गान्धर्व नाट्यं वास्तुविद्या वैद्यकं धनुर्वेदश्चेत्येकोनत्रिंशत्, अङ्गविद्यायां तु निमित्ताङ्गाष्टकम स्वमः स्वरो व्यञ्जनं | भौमं लक्षणमुत्पातमान्तरिक्षमित्युक्तं । 'त्रिंशता मोहनीयस्थानैः' चतुर्थकर्मबन्धनिबन्धनैः, तानि चासूनि - जलमवगाह्य त्रसानां विहिंसनं १, हस्तादिना मुखं पिधाय हिंसनं २, बर्द्धादिना शिरो वेष्टयित्वा मारणं ३ मुद्गरा| दिना शिरसोऽभिघातेन मारणं ४ भवोदधिपतितजन्तूनां द्वीपकल्पस्य देहिनो हननं ५, सामर्थ्ये सत्यपि घोरपरिणामात्-ग्लानस्यौषधादिभिरप्रतिचरणं ६, तपखिनो बलात्कारेण धर्माशनं ७, सम्यग्दर्शनादिमोक्षमार्गस्य परेषां विपरिणामकरणेन खस्य परेषां चापकारकरणं ८, जिनानां निन्दाकरणं ९, आचार्यादिखिंसनं १०, आचार्यादीनां ज्ञानदानादिभिरुपकारिणामप्रतिचरणं ११, पुनः पुनर्निमित्तकथनाद्यधिकरणोत्पादनं १२, तीर्थभेदनं १३, वशीकरणादिकरणं १४, प्रत्याख्यात भोगप्रार्थनं १५, अभीक्ष्णमबहुश्रुतत्वेऽप्यात्मनो बहुश्रुत (त्व) प्रकाशनं तथाऽतपस्विनोऽपि तपस्विताप्रकाशनं १६, बहुजनस्यान्तर्धूमेनाग्निना हिंसनं १७ स्वयं कृतपापस्या For Private & Personal Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy