________________
साधुप्रतिक्रमणं व्याख्या
धर्मसंग्रहे सद्भूतघातादिवचनप्रणिधानं मृषानुबन्धि २, क्रोधलोभादेः परद्रव्यहरणचित्तं स्तेयानुबन्धि ३, सर्वाभिशङ्कअधिकारः नपरोपघातपरायणं शब्दादिविषयसाधकद्रव्यसंरक्षणप्रणिधानं विषयसंरक्षणं ४ चेति चतुर्विधं, अस्य चोत्स-1
नदोष १ बहुलदोष २ नानाविधदोष ३ मरणदोषा ४ लिङ्गानि २।धर्म्यमपि ज्ञानदर्शनचारित्रवैराग्यभावनाभिः
कृताभ्यासस्य नयादिभिरतिगहनं न बुध्यते तुच्छमतिना परं सर्वज्ञमतं सत्यमेवेति चिन्तनं आज्ञाविचयः १, ॥८ ॥
रागद्वेषकषायाश्रवादिक्रियासु प्रवर्त्तमानानामिहपरलोकयोरपायान् ध्यायेदिति अपायविचयः २, प्रकृत्यादि४ भेदभिन्नकर्मणः खरूपं ध्यायेदिति विपाकविचयः ३, जिनोक्तषद्रव्याणां लक्षणसंस्थानासनविधानमानादीनां ध्यानं संस्थानविचयश्च ४ इति चतुर्विधं, तत्र द्रव्याणां लक्षणं-गत्यादि संस्थानं लोकाकाशस्येव धर्माधर्मयोः जीवानां समचतुरस्रादि अजीवानां परिमण्डलादि कालस्य मनुष्यक्षेत्राकृति, तथा आसनमाधारः,1 सर्वेषां लोकाकाशं, विधानानि-भेदाः, मानानि-आत्मीयप्रमाणानीति, विचयश्च-चिन्तनेन परिचयः, अस्य चागमो १ पदेशा २ ऽऽज्ञा ३ निसर्गतो ४ यजिनोक्तभावश्रद्धानं तल्लिङ्गं । शुक्लं च-पृथक्त्ववितर्कसविचारं १ एकत्ववितर्कमविचारं २ सूक्ष्मक्रियाऽनिवर्ति ३ व्युच्छिन्नक्रियाऽप्रतिपाति ४ चेति चतुर्विधं, तत्र पृथक्त्वेनएकद्रव्याश्रितोत्पादादिपर्यायाणां भेदेन वितर्को यत्र तत् तथा, विचारः संक्रमस्तेन सहित ससंक्रममित्यर्थः,
ततः कर्मधारयः, संक्रमश्चार्थव्यञ्जनयोगान्तरतः, तत्रार्थो द्रव्यं तस्माद्यञ्जने शब्दे ततश्चार्थे इति, एवं योगेविपि त्रिषु संक्रमः, एवमेकत्ववितर्कमविचार-पर्यायाणामभेदेन वितर्को व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा
Jan Education
ForPrivate sPersonal use Only
daw.jainelibrary.org