SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ चानुदीर्णानामुदयनिरोधस्योदीर्णानामुदयविफलीकरणस्याकरणतोऽतिचारः। संज्ञानं संज्ञा, तत्राहारसंज्ञा-क्षुद्वे-1 दनीयोदयादाहाराभिलाषः, भयसंज्ञा-मोहनीयोदयायोत्पादः, मैथुनसंज्ञा-वेदोदयान्मैथुनाभिलाषः, परिग्र-12 हसंज्ञा-तीव्रलोभोदयात्परिग्रहाभिलाषः। तथा विरुद्धाः कथाः विकथास्ताश्चतस्रः प्राग्व्याख्याताः,यास्तु स्थानाङ्गे सप्तविधा उक्ता 'इथिकहा भत्तकहा देसकहा रायकहा मिउकारुणिआ दसणभेअणी चारित्तभेअणी'त्ति तत्र पुत्रादिवियोगदुःखितमात्रादिकृतकरुणारसगर्भप्रलापप्रधाना मृदुकारुणिकी, दर्शनभेदिनी-कुतीर्थिकज्ञानादिप्रशंसारूपा, चारित्रभेदिनी-न सम्भवन्तीदानी महाव्रतानि साधूनां प्रमादबहुलत्वादतिचारशोधकाचार्यतत्कारकशुद्धीनामभावादित्यादिरूपा, तत्र चान्त्यानां तिसृणां उपलक्षणत्वात् संग्रहो ज्ञेयः । ध्यातियानं-स्थिराध्यवसानं, मनस एकाग्रावलम्बनमित्यर्थः, कालतोऽन्तर्मुहूर्तमानं, तच्चतुर्की-तत्रार्त्त-विषयानुरञ्जितं, रौद्रं-हिंसाद्यनुरञ्जितं धर्मात्-क्षान्त्यादिदशविधादनपेतं धर्म्य, जिनवचनार्थनिर्णयात्मकमित्यर्थः, शोकं लमयतीति निरुक्तात् शुक्लं-नीरञ्जनं, तत्रात चतुर्द्धा-अमनोज्ञानां शब्दादिविषयाणां तदाधारवस्तूनां च रासभादीनां संप्रयोगे तद्विप्रयोगचिन्तनमसंप्रयोगे प्रार्थना च प्रथमं १, शूलादिरोगसंभवे तद्विपयोगप्रणिधानं, तद्विप्रयोगसंभवे च तदसंप्रयोगचिन्ता च द्वितीयं २, इष्टानां शब्दादीनां विषयाणां सातवेदनायाश्चावियोगाध्यवसानं संयोगाभिलाषश्च तृतीयं ३, चक्रवादिविभवप्रार्थनारूपं निदानं चतुर्थ४,आर्तस्य विलाप १साश्रुत्व २ दैन्यभाषण ३ शीर्षादिकुट्टनरूपाणि ४ लिङ्गानि रौद्रं च सत्त्वेषु वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानं हिंसानुबन्धि१, पिशुनासभ्या Jain Education inte For Private & Personal Use Only Nirjainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy