SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ यत्किञ्चिदशनादि उद्गमेन-आधाकर्मादिनोत्पादनया-धान्यादिलक्षणया एषणया-शङ्कितादिलक्षणयाऽपरिशुद्धं परिगृहीतं परिभुक्तं वा यन्न परिष्ठापितं कथञ्चित् प्रतिगृहीतमपि, एवमनेन प्रकारेण यो जातोऽतिचारस्तस्य | मिथ्या दुष्कृतं पूर्ववत् । एवं गोचरातिचारप्रतिक्रमणमभिधाय स्वाध्यायाचतिचारप्रतिक्रमणमाह-"पडिक्कमामि चाउक्कालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणयाए दुप्पडिलेहणयाए अप्पमजणयाए दुप्पमज्जणयाए अइक्कमे वइक्कमे अइआरे अणायारे जो मे देवसिओ अइआरो कओ तस्स मिच्छामि दुक्कडं" व्याख्या-अतिक्रमामीति पूर्ववत्, कस्य ?-चतुष्कालं-दिवसरजनिप्रथमचरमप्रहरेष्वित्यर्थः, स्वाध्यायस्यसूत्रपौरुषीलक्षणस्याकरणतया-अनासेवनया योऽतिचारः कृतस्तस्येति योगः, तथा 'उभयकालं' प्रथमपश्चिमपौरुपीलक्षणं 'भाण्डोपकरणस्य' भाण्डं-पात्रादि उपकरणं-वस्त्रादि समाहारद्वन्द्वे भाण्डोपकरणं तस्य पात्रवस्त्रादेः 'अप्रत्युपेक्षणया' मूलत एव चक्षुषाऽनिरीक्षणेन, 'दुष्पत्युपेक्षणया' दुर्निरीक्षणेन, तथा 'अप्रमार्जनया' मूलत ४ा एव रजोहरणादिनाऽस्पर्शनया 'दुष्प्रमार्जनया' अविधिना प्रमार्जनेनेति, तथा 'अतिक्रमे व्यतिक्रमेऽतिचारेऽ नाचारे यो मया दैवसिकोऽतिचारः कृतस्तस्य मिथ्या दुष्कृतमिति, एतत्प्राग्वत् , नवरमतिक्रमादीनां खरूप-18 |मिदम्-यथाऽऽधाकर्मनिमन्त्रणे कृते सति तत्प्रतिश्रवणे प्रथमः१, तदर्थ गच्छतो द्वितीयः २, तत्र गृहीते तृतीयः ३, भोजनार्थ कवलग्रहणे सति चतुर्थः ४, एवं प्रतिसेवान्तरेष्वप्यूह्यं । साम्प्रतमेकविधादिभेदेन प्रतिक्रमणं प्रतिपादयन्नाह-"पडिकमामि एगविहे असंजमे । पडि० दोहिं बंधणेहिं-रागबंधणेणं दोसबंधणेणं । प०तिहिं दंडे बात, नवरातन्त्र गृहीते तताम Jain Education Intel rel For Private & Personel Use Only Www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy