________________
धर्मसंग्रहे 1श्चतुर्दिशं वह्नौ वा बलिं क्षिप्त्वा भिक्षां ददाति सा बलिपाभृतिका तया, जीवविराधनाऽत्रातिचारः। 'स्थाप-16/प्रतिक्रमणं अधिकारः नाप्राभृतिकया' भिक्षाचरार्थं स्थापिता या प्राभृतिका तन्मध्याद्यां भिक्षां ददाति सा स्थापनामाभृतिका तया,18
अत्रान्तरायदोषोऽतिचारः, तथाऽऽधाकर्मादिदोषाणामन्यतमे शङ्किते योऽतिचारः, सहसाकारे-झगिति अकल्पनीये गृहीत इति, अत्र चापरित्यजतोऽविधिना वा परित्यजतोऽतिचारः अनेन प्रकारेण याऽनेषणा-नञोऽत्रेषदर्थत्वात् प्रमादादेषणा कृता तया, प्राणैषणया च-सर्वथाऽप्यविमर्शकत्वात्प्रकृष्टानेषणया, तथा प्राणा-रसजादयो |भोजने-दध्योदनादौ चलितस्फुटककदलीफलाम्रादौ चिरकालीनखारिकादौ वा विराध्यन्ते यस्यां सा प्राणभोजना तया, एवं 'बीजभोजनया' 'हरितभोजनया' तत्र बीजविराधना तिलवन्यादिभोजने संभवति, हरितविराधना च क्लिन्नदाल्यादौ रूढाकुरसंभवात् संभवति, तथा पश्चात्-दानानन्तरं कर्म-जलोज्झनादि यस्यां सा पश्चाकर्मिका तया, पुर:-प्रथमं कर्म यस्यां सा पुरःकर्मिका तया, 'अदृष्टाहृतया' अदृष्टोत्क्षेपनिक्षेपपदमानीतयेत्यर्थः तत्र च दान्या सत्त्वसंघटनादिसंभवादतिचारः, 'उदकसंसृष्टाहृतया' उदकसंसृष्टात्स्थानादाहृतया, एवं रजःसंसृष्टाहृतया च, परिशाटनं-दानाय देयवस्तुनो भूमौ छर्दनं तेन निवृत्ता पारिशाटनिका तया, 'परिष्ठापन प्रदानभाजनगतद्रव्यान्तरोज्झनलक्षणं तेन निवृत्ता पारिष्ठापनिकी तया 'ओहासणभिक्खाए'त्ति विशिष्टद्र-18॥७७ ॥ व्ययाचनं समयपरिभाषया ओहासणत्ति भण्णइ, तत्प्रधाना भिक्षा तया अवभाषणभिक्षया, कियदत्र भणिव्यामो भेदानामेवं बहुत्वात्, ते च सर्वेऽपि यस्मादुद्गमोत्पादनैषणाखवतरन्तीत्यत आह-जं उग्गमेणं' इत्यादि,
Jain Education International
For Private & Personel Use Only
O
ww.jainelibrary.org