________________
तिचारः कृतस्तस्य मिथ्या दुष्कृतमिति पूर्ववत् । आह-दिवा शयनस्य निषिद्धत्वात् कथं तदतिचारः १, सत्यं, इदमेव वचनं ज्ञापयति-अपवादतोऽध्वखेदादौ सुप्यत इति । एवं त्वग्वर्त्तनस्थानातिचारप्रतिक्रमणमभिधायेदानीं गोचरातिचारप्रतिक्रमणप्रतिपादनायाह-"पडिक्कमामि गोअरचरिआए भिक्खायरिआए उग्घाडकवाडग्घाडणयाए साणावच्छादारासंघट्टणयाए मंडीपाहुडिआए बलिपाहुडिआए ठवणापाहुडिआए संकिए सहसागारिए अणेसणाए पाणेसणाए पाणभोअणाए बीअभोअणाए हरिअभोअणाए पच्छेकम्मिआए पुरेकम्मिआए अदिट्ठहडाए दगसंसहहडाए रयसंसट्ठहडाए पारिसाडणिआए पारिठावणिआए ओहासणभिक्खाए जं उग्गमेणं उप्पायणेसणाए अपरिसुद्धं परिघाइ अं(ग्गहिय) परिभुत्तं वा जं न परिट्ठविअंतस्स मिच्छामि दुक्कडं" व्याख्याप्रतिक्रमामि, गोचरचर्यायां योऽतिचार इति गम्यते तस्येति योगः, गोश्चरणं गोचरः, गोचरे इव चर्या-भ्रमणं | गोचरचर्या तस्यां, क विषये ?-भिक्षार्थ चर्या भिक्षाचर्या तस्यां भिक्षाचर्या हेतुभूतायां गोचरचर्यायामित्यर्थः, तथाहि-लाभालाभनिरपेक्षः खल्वदीनचित्तो मुनिरुत्तमाधममध्यमेष्विष्टानिष्टेषु वस्तुषु रागद्वेषावगच्छन् भिक्षामटतीति । कथं पुनस्तस्यामतिचार इत्याह-उद्घाट-दत्तार्गलमीषत्स्थगितं वा यत्कपाटं तस्योद्घाटनं-सुतरां प्रेरणं तदेवोद्घाटकपाटोद्घाटना तया, इह चाप्रमार्जितकपाटोघाटनादतिचारः, तथा श्वानवत्सदारकसंघटनयेति प्रक-18 दार्थ, तथा 'मण्डीप्राभृतिकया' प्राभृतिका समयपरिभाषयौदन, यत्र मण्ड्यां-ढक्कनिकायां-भाजनान्तरे वाऽग्रकूरं कृत्वा भिक्षां ददाति सा मण्डीमाभृतिका तया, तत्र प्रवर्तनादोषोऽतिचारः। 'बलिप्राभृतिकया' प्रथम स्थाल्या
Jain Education Intel
For Private & Personel Use Only
allww.jainelibrary.org