SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ७६॥ भूतया, स्वाध्यायाद्यकरणतश्चेहातिचारः । प्रतिदिवसं प्रकामशय्यैव निकामशय्योच्यते, तया हेतुभूतया, अत्रा-18 प्रतिक्रमणं प्यतिचारः प्राग्वत् । 'उद्वर्त्तनं तत्प्रथमतयाऽन्यपार्श्वन वर्त्तनं तदेवोद्वर्त्तना (नता)तया, "परिवर्तनं पुनस्त-12 त्पार्चेनैव वर्त्तनं तदेव परिवर्तना(नता)तया, एवमग्रेऽपि स्वार्थिकस्ताप्रत्ययो बोध्या, अत्राप्रमृज्य कुर्वतोऽतिचारः। |'आकुञ्चनं' गात्रसंकोचनं तदेवाकुचना( नता)तया, 'प्रसारणा' अङ्गानां विक्षेपः तदेव प्रसारणा(णता)तया, अत्र च कुर्कुटीदृष्टान्तेनाकाशे पादप्रसारणाकुञ्चने प्रमृज्य कार्ये, तदकरणेऽतिचार इति । षट्पदिकानां-यूकाना-18। मविधिना संघहना-स्पर्शना तया, तथा 'कूजिते' कासिते, तच्च मुखवस्त्रिकां करं वा मुखेऽनाधाय कुर्वतो|ऽतिचारः, विषमा धर्मवतीत्यादिशय्यादोषोचारणं कर्करायितं तस्मिन् सत्यार्त्तध्यानजोऽतिचारः, तथा क्षुते जृम्भिते वाऽविधिना कृते आमर्षणमामर्षोऽप्रमृज्य करेण स्पर्शनं तस्मिन् सरजस्कामर्षे सह पृथिव्यादिरजसा यद्वस्तु स्पृष्टं, तत्संस्पर्शे सतीत्यर्थः। एवं जाग्रतोऽतिचारसंभवमधिकृत्योक्तं, अधुना सुप्तस्योच्यते-'आउलमाउलाए'त्ति आकुलाकुलया-ख्यादिपरिभोगविवाहयुद्धादिसंस्पर्शनरूपनानाप्रकारखमप्रत्ययया खमनिमित्तया योऽतिचार इति गम्यते, सा पुनर्मूलगुणोत्तरगुणविषया भवति अतो भेदेन दर्शयन्नाह-स्त्रीविपर्यासोऽब्रह्मासेवनं, तस्मिन् भवा स्त्रीवैपर्यासिकी तया, स्त्रीदर्शनानुरागतस्तदवलोकनं दृष्टिविपर्यासस्तस्मिन् भवा दृष्टिवैपर्यासिकी। तया, एवं मनसाध्युपपातो मनोविपर्यासः तस्मिन् भवा मनोवैपर्यासिकी तया, एवं पानभोजनवैपयोसिकी रात्री पानभोजनपरिभोग एव तद्विपर्यासः अनया हेतुभूतया य इत्यतिचारमाह, मयेत्यात्मनिर्देशे, दैवसिकोड Jain Education Intel For Private & Personel Use Only INTww.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy