________________
Resecevedeoedesesedeseseseseenera
कान्ततोऽभावमापादितं, तस्य दैवसिकातिचारस्येत्येतावता क्रियाकालमाह, 'मिच्छामि दुक्कडं' इत्यनेन तु तस्यैव निष्ठाकालमाह, मिथ्येति प्रतिक्रमामि दुष्कृतमेतत्-अकर्त्तव्यमेतत्, एतच्चातिचारसूत्रं सामायिकसूत्रानन्तरमतिचारस्मरणार्थं उच्चारितं, पुनर्वन्दनकानन्तरं गुरोः खातिचारज्ञापनार्थमधीतं, इह तु प्रतिक्रमणाय, पुरतस्तु पुनरतिचाराशुद्धेर्विमलीकरणार्थमुच्चारयिष्यत इति न पुनरुक्तं । एवमोघातिचारस्य समासेन प्रतिक्रमणमुक्तं, साम्प्रतं विभागेनोच्यते, तत्रापि गमनागमनातिचारमाह-"इच्छामि पडिकमिउं इरिआवहियाए” इत्यादि, व्या-12|| ख्यातमिदं प्राक । इति गमनागमनातिचारप्रतिक्रमणमुक्तं, अधुना शेषाशेषातिचारप्रतिक्रमणाय मौलं प्रतिक्रमणसूत्रमुच्यते, तत्र चादौ त्वरवर्तनस्थानातिचारप्रतिक्रमणप्रतिपादनायाह-"इच्छामि पडिक्कमि पगामसिज्जाए णिगामसिजाए संथारा उबद्दणाए परिअट्टणाए आउंटणाए पसारणाए छप्पईसंघट्टणाए कुइए कक्कराइए छिए जंभाइए आमोसे ससरक्खामोसे आउलमाउलाए सुअणवत्तिआए इत्थीविप्परिआसिआए दिहीविप्परिआसि-1 आए मणविप्परिआसिआए पाणभोअणविप्परिआसिआए जो मे देवसिओ अइआरो कओ तस्स मिच्छामि दुक्कडं" व्याख्या-इच्छामि प्रतिक्रमितुमिति प्राग्वत्, कस्येत्याह-'प्रकामशय्यया' हेतुभूतया, यो मया दैवसि-16 कोऽतिचारः कृतस्तस्येति योगः, अनेन क्रियाकालमाह, 'मिच्छामि दुक्कडं ति निष्ठाकालमेवेति भावना, एवं सर्वत्र योजना कार्या । शयनं शय्या, प्रकामं चातुर्यामं शयनं प्रकामशय्या, शेरतेऽस्यां वा शय्या-संस्तारकादि|लक्षणा, प्रकामा उत्कटा शय्या संस्तारकोत्तरपट्टादतिरिक्ता प्रावरणमधिकृत्य कल्पत्रयातिरिक्ता वा तया हेतु
Jain Education in
For Private & Personel Use Only
(@Tww.jainelibrary.org