________________
& "आलोइऊण दोसे, गुरुओ पडिवन्नपायछित्ता य । सामाइअपुवयं (छ)ते, कडेति तओ पडिक्कमणं ॥१॥” इति।
उपविशनमुद्रा चेत्थम्-“काऊण वामजाणु, हिट्ठा उहुं च दाहिणं जाणुं । सुत्तं भणंति सम्मं, करजुअकयपुत्तिरयहरणा ॥१॥” इति । अथ साधुप्रतिक्रमणसूत्र विवरणं लिख्यते, तत्र प्रतिक्रमणमिति शब्दार्थः पूर्वमुक्त | एव, स च शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव प्रतिकूलं क्रमणं निवर्त्तनमितिस्वरूपः, तच्च द्विधा-19 यावज्जीवं इत्वरं च, तत्राद्यं व्रतादिलक्षणं, इत्वरं दैवसिकादि, तद्विषयास्तु 'पडिसिद्धाणं करणे इत्यादयः।
अत्र चादौ पञ्चमङ्गलादयो वाच्यास्ते च व्याख्यातपूर्वाः। अथ विघ्नविघाताय मङ्गलपूर्वकं प्रतिक्रान्तव्यमतः सूत्र-९ IS कार एव तदाह-"चत्तारि मंगलं-अरहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपण्णत्तो धम्मो मंगलं”। मां
भवाद्गालयतीति मङ्गयते-गम्यते हितमनेनेति वा मङ्गलं, (मङ्गं-) धर्म लातीति वा मङ्गलं, तत्र चत्वारः पदार्था मङ्गलमिति, के ते? इत्याह-'अरहंता०' इत्यादि सुगमं, अत्र साधुग्रहणादाचार्योपाध्याया गृहीता एव, तेषां साधुत्वानपायात्, केवलिप्रज्ञप्तश्च धर्मः श्रुतचारित्ररूपः । एषां च मङ्गलता एभ्य एव हितमङ्गनाद्, अत एव च लोकोत्तमत्वमित्याह, अथवा मङ्गलता चैषां लोकोत्तमत्वात्तथा चाह-"चत्तारि लोगुत्तमा-अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो” चत्वारः पूर्वोक्ताः लोकस्य-भावलोकादेरुत्तमा लोकोत्तमाः, तानाह-'अरहंता०'इत्यादि, अर्हन्तो लोकस्य-भावलोकस्योत्तमाः-प्रधानाः, सर्वासां शुभप्रकृतीनामुदये वर्तमानत्वात्, सिद्धास्तु क्षेत्रलोकस्योत्तमास्त्रैलोक्यमस्तकस्थत्वात् , साधवस्तु सम्यगज्ञानदर्शन
अरहंता मंतिपूर्वाः । अथ विभावषयास्तु 'पडिसिनातवरूपः, तब विधात
Jain Education in
For Private
Personal Use Only
A
ww.jainelibrary.org