________________
Jain Education Inter
चारांश्चिन्तयन्तीति । प्रतिक्रमणविधिश्च पूर्वमुक्त एव । यश्च कश्चित् साधुविषयो विशेषः, स [च] यथास्थानं दर्श्यते, तद्यथा - आचार्यों दैवसिकातिचारं द्विगुणं चिंतयति, यतोऽन्ये हिण्डिता बहुव्यापारास्तावता कालेनैकगुणं चिन्तयन्तीति, उक्तं च- "जा देवसिअं दुगुणं, चिंतेइ गुरू अहिंडओ चेट्टं । बहुवावारा इअरे, एगगुणं ताव चिंतेंति ॥ १ ॥” तत्र चिन्तनीयेयं गाथा-सयणासणन्नपाणे, चेइअ जइ सिज्ज काय उच्चारे । समिई भावण गुत्ती, वितहायरणमि अइआरो ॥ १ ॥” व्याख्या-शयनीयस्य वितथाचरणे सत्यतिचारः, अयं भावः - संस्तारकादेरविधिना ग्रहणादावतिचार इति, एवं आसनस्य पीठकादेरविधिना ग्रहणादावतिचारः, अन्नपानस्याविधिना ग्रहणादावतिचारः, चैत्यविषयं च वितथाचरणमविधिवन्दनादि, यतिविषयं च यथार्हविनयाद्यकरणं, शय्याविषयं |च अविधिना प्रमार्जनं ख्यादिसंसक्तायां वा वसनं, कायिकाविषयं च तस्या अस्थण्डिले व्युत्सर्जनं, स्थण्डिले वाऽप्रत्युपेक्षितादौ, उच्चारविषयमपि तथैव, समितिविषयं चाऽऽसामविधिनाऽऽसेवनमनासेवनं वा, एवं भावनाविषयं गुप्तिविषयं च ज्ञेयमिति । दोषान्मनसिकृत्य गुरुणा पारिते कायोत्सर्गे साधवस्तं पारयन्ति, ततः प्रागुक्त| क्रमेण देवसिकातिचारानालोच्य 'ठाणे गमणे' इत्यादि गुरुकथनानन्तरमन्ये वदन्ति तत्पाठश्चायम् - "ठाणे गमणे चंकमणे आउत्ते अणाउत्ते हरिअकाय संघट्टिय बीयकाय संघहिअ तसकाय संघहिअ थावरकाय संघट्टिअ छप्पई संघट्टिअ ठाणाओ ठाणं संकामिआ, देहरे गोअरचरी बाहिरभूमिं मारगि जातां आवतां हरिअकाय | बीअकाय नील फूल त्रस थावरजीवतणा संघट्ट परिताप उपद्रव हुआ, माटीतणो खेरो चांप्यो, काचापाणीतणा
For Private & Personal Use Only
esesese
www.jainelibrary.org