SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ कृत्वा ततो धापनं क्रियते, यत:-"पायस्स पडोआरं, दुनिसेज तिपट्ट पोत्ति रयहरणं । एते ण विसामिजइ, जइणा संकामणा धुवणा॥१॥” शेषोपधेस्तु विश्रामणं भवति, तचैवम्-"अभितरपरिभोगं, उवरि पाउणइ णाइ-10 दूरे अ । तिन्नि अ तिन्नि अ एकं, निसाउ काउं पडिच्छेज्जा ॥१॥” अन्तःपरिभोगकल्पं त्रीन् रात्रीन् कल्पद्वयो-181 |परि प्रावृणोति, ततस्त्रीन् रात्रीनात्मासन्ने स्थापयति, एकां च रात्रिं आत्मोपरि कीलिकादौ स्थापयति, ततोऽपि खयं प्रावृत्य परीक्षते, यदि षट्पद्यो न लगन्ति तदा प्रक्षालनीयः । प्रक्षालनार्थ च गृहिभाजनेषु नीवोदकस्यापि ग्रहणमनुमतं, यतः-"निवोदगस्स गहणं, केई भाणेसु असुइपडिसेहो । गिहिभायणेसु गहणं, ठिअवासे मीसयं छारो॥१॥" "ठिअवासे'त्ति स्थिते वर्षणे ग्राह्य, वर्षति तु अन्तरिक्षतः पातान्मिश्रमिति न ग्राह्यं ।। बहुवेलारक्षणार्थ तु तत्र क्षारः क्षेप्य इति । उपधिक्षालनक्रमश्चैवम्-"गुरुपच्चक्खाणिगिलाणसेहमाईण धोअणं पुष्विं । तो अप्पणो पुवमहागडे अ इअरे दुवे पच्छा ॥१॥” पूर्वार्द्ध सुगम, खोपधौ च पूर्व यथाकृतान्येकखपण्डान्यतूर्णितानि च क्षाल्यानि, इतरौ द्वौ वस्त्रभेदौ अल्पबहुपरिकर्मरूपौ तौ पश्चात् , तत्राल्पपरिकर्माणि मनाक् | कचित्सीवितानि बहुपरिकर्माणि च द्विधा सीवितानि तूर्णितानि च । प्रक्षालने यतना चेत्थम्-"अच्छोडपिट्टवाणासु अ, ण धुवे धोए पयावणं न करे । परिभोगापरिभोगे, छायातव पेह कल्लाणं ॥१॥” साधुः प्रक्षालयन् | वस्त्राणि नाच्छोटयति, नापि पियति, किंतु हस्तेन मनाग यतनया धावयन्ति, धौतानि चातपे न दत्ते, षट्पदविराधनात् । कानि पुनरातपे कार्याणीत्याह-परिभोग्यानि छायायामपरिभोग्यानि चातपे देयानीत्यर्थः । 'पेहत्ति Jain Education in For Private & Personel Use Only W w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy