________________
धर्मसंग्रहे अधिकारः
३
॥ ७१ ॥
Jain Education Intel
युक्तमित्यनुवर्त्तते, तथाऽङ्गारधूमाभ्यां परि-समंतात् शुद्धं विरहितं, एवंविधं उपधिं भिक्षुर्धारयेत् यो गणचिन्तां न चिन्तयति सामान्यसाधुरितिभावः । यस्तु गणचिन्तकस्तस्य न प्रतिनियतं उपधिप्रमाणं, तथा चाह - " गणचिंतगस्स सत्ता, उक्कोसो मज्झिमो जहण्णो य । सघोवि होइ उवही, उवग्गहकरो महाणस्स ॥ १ ॥" 'गणचिन्तको' गणावच्छेदकादिस्तत्सत्तायामत ऊर्द्ध उत्कृष्टो मध्यमो जघन्यश्च सर्वोऽप्यधिक औपग्रहिकश्चोपधिर्महाजनस्योपग्रहं करोति, इदमेव भावयति - "आलंबणे विसुद्धो, उवहि दुगुणो चउग्गुणो वावि । सङ्घोवि होइ उवही, उवग्गहकरो महाणस्स ॥ १ ॥ " आलम्बनं द्विधा, द्रव्यतो गर्त्तादौ निमज्जतो रज्ज्वादिः, भावतः संसारगर्त्तायां निपततां ज्ञानादि, इह पुनर्यत्र क्षेत्रे काले वा दुर्लभं वस्त्रं तदादिकमालम्बनं गृह्यते, तत्र विशुद्धे प्रशस्ते सति द्विगुणो वा चतुर्गुणो वा औधिक औपग्रहिक श्चोपधिः सर्वोऽपि महाजनस्य गच्छस्योपग्रहकरो भविष्यतीतिकृत्वा गण| चिन्तकस्य परिग्रहो भवतीति ] वस्त्रादिश्च सर्वोऽप्युपधिरर्द्धमासेनाप्राप्ते वर्षाकाले यतनया प्रक्षाल्यः, प्रचुरज| लाभावे तु पात्रनिर्योग एव प्रक्षाल्यः, तदुक्तमोघनिर्युक्तौ - "अप्पत्ते चिअ वासे, सवं उवहिं धुवंति जयणाए । असइए उदवस्स उ, (य) जहण्णओ पायणिज्जोगो ॥१॥” इति । आचार्यादीनां तु पुनः पुनरपि प्रक्षाल्यते, यतः"आयरिअगिलाणाणं, मइला महला पुणोवि धोअंति । मा हु गुरूण अवण्णा, लोगंमि अजीरणं इयरे ॥ १ ॥ " तत्र पात्रनिर्योगो द्वे निषद्ये संस्तारोत्तरचोलपट्टा मुखवस्त्रिका रजोहरणं चेत्युपकरणान्युपधिप्रक्षालनाकाले न विश्रामयेत्, यतो नान्यान्युपभोग्यानि भवन्ति । तत्र च षट्पदीसङ्क्रमणं वस्त्रान्तरितहस्तेनान्यस्मिन् वस्त्रे
For Private & Personal Use Only
औधिकौपग्रहिको
पधिः
॥ ७१ ॥
jainelibrary.org