________________
Jain Education Inter
म्भार्थं भवति, उत्सर्गतश्च साधूनामवष्टम्भो न युक्तः, प्रत्युपेक्षितेऽपि स्तम्भादौ कुन्थुपिपीलिकादिजन्तुसंचारस्य दुर्वारत्वात्, [ यतः - "अवोच्छिन्ना तसा पाणा, पडिलेहा न सुज्झई । तम्हा हट्टहस्स, अवभो न कप्पई ॥ १ ॥” इति ] ग्लान्यादिकारणे तु घनमसृणादिगुणोपेते फलके पाषाणमये स्थम्भे सुधामृष्टे कुड्ये कुड्यसंलनोपधिविण्टलिकायां वा अवष्टनीतेति । "अतरंतस्स उ पासंगा जेणं दुक्खंति तेणऽवभे । संजमपट्टीथंभे, सेले. बु(त) ह कुडविलिए ॥ १ ॥" इत्युत्कृष्ट औपग्रहिक उपधिः सर्वोऽक्षादिः । दण्डकादीनां चोपकरणत्वमित्थम्“दुट्टपसुसाणसावयविज्जलविसमेसु उद्गमाईसु । लट्टी सरीररक्खा, तवसंजमसाहिआ भणिआ ॥ १ ॥ मोक्खट्ठा नाणाई, तणू तयट्ठा तयट्टिआ लठ्ठी । दिट्ठा जहोवयारे, कारणतक्कारणेसु तहा ॥ २ ॥” न च केवलं यष्टिरूपकरणं वर्त्तते, किंत्वन्यदपि यज्ज्ञानादीनामुपकारकं तदुपकरणमुच्यते, तथा चाह - "जं जुज्जइ उवयारे, उबग| रणं तं सि होइ उवगरणं । अइरेगं अहिगरणं, अजओ अजयं परिहरंतो ॥ १ ॥” परिहरन्निति सेवमानः । तथा“मुच्छारहिआणेसो, सम्मं चरणस्स साहगो भणिओ । जुत्तीए इहरा पुर्ण, दोसा इत्थंपि आणाई ॥ १ ॥ " | इत्यौपग्रहिकोपधिविचारः । [ अत्रेदमवधेयम् - स्थविरकल्पिकानां प्रच्छादकत्रिकादि उपकरणं यत्पूर्वमुक्तं तत्सामा| न्यापेक्षया, विशेषापेक्षया त्वधिकधारणेऽप्यदोषः, तथा चोक्तं बृहत्कल्पवृत्तौ कीदृशं पुनरुपधिं भिक्षुरूपधारयतीति आह - " भिन्नं गणणाजुत्तं, पमाणइंगालधूमपरिसुद्धं । उवहिं धारइ भिक्खू, जो गणचिंतं न चिंतेह ॥ १ ॥” भिन्नं नाम सदशं सकलं वा यन्न भवति, गणनया तूक्तं, प्रमाणेन च यथोक्तदैर्घ्यविस्तारविषयमानेन
For Private & Personal Use Only
w.jainelibrary.org