________________
शति अङ्गुष्ठप्रदेशिनीकुण्डलिकापूरणं कर्त्तव्यम् । अथ समुदायस्यैव प्रमाणमाह-"बत्तीसंगुलदीहं, चउधीसं
अंगुलाइ दंडो से। अटुंगुला दसीओ, एगयरं हीणमहिअंवा ॥१॥” उभयं मिलित्वा द्वात्रिंशदङ्गलं भवतीत्यर्थः। तच किम्मयं भवतीत्याह-"उणि उहि वावि, कंबलं पायपुंछणं । तिपरीअल्लमणिसिह, रयहरणं धारए एगं ॥१॥” पादप्रोञ्छनशब्देनात्र रजोहरणमेव गृह्यते "तिपरिअल्लं ति दवरकस्य त्रिःपरिवर्त्त 'अणिसि-11 हँति मृदु कर्त्तव्यं । अथ प्रयोजनमाह-"आयाणे निक्खिवणे, ठाणे निसीअणे तुअ अ। पुष्विं पमजणट्ठा, लिंगट्ठा चेव रयहरणं ॥१॥” अथ मुखवस्त्रिकाप्रमाणमाह-"चउरंगुलं विहत्थी, एरं मुहणंतगस्स उ पमाणं । | बितिअं मुहप्पमाणं, गणणपमाणेण एक्ककं ॥१॥" "बितिति द्वितीयं, मुखप्रमाणं-मुखानुसारेण कर्त्तव्यं, प्रमार्जयतो नासिकामुखयो रजःप्रवेशरक्षणार्थ यावता मुखमाच्छाद्यते, त्र्यस्रायाश्च कोणद्वयं गृहीत्वा पृष्ठतः। कृकाटिकायां ग्रन्थिर्दातुं शक्यते तावत्प्रमाणा कार्येत्यर्थः । तत्प्रयोजनं चेत्थम्-"संपातिमरयरेणूपमजणहा है। वयंति मुहपत्तिं । नासं मुहं च बंधइ, तीए वसहिं पमजंतो॥१॥” संपातिमसत्त्वरक्षणार्थं जल्पद्भिर्मुखे दीयते, तथा रजः-सचित्तपृथिवीकायस्तत्प्रमार्जनार्थ, तथा रेणुप्रमार्जनार्थ मुखवस्त्रिकाग्रहणं, तथा तया नासिका मुखं च बनीत वसतिं प्रमार्जयन् येन न मुखादौ रजः प्रविशति । अथ मात्रकप्रमाणं यथा-"जो मागहो अर | पत्थो, सविसेसयरं तु मत्तगपमाणं । दोसुवि दवग्गहणं, वासावासे अहीगारो ॥१॥" मागधश्च प्रस्थः “दो असईउ पसई, दो पसईओ सेइआ, चउसेइआहिं मागहो पत्थो" इतिखरूपस्ततः सविशेषतरं मात्रकं भवति,
Jin Education
For Private Personal Use Only
Mw.jainelibrary.org