SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ & प्रकारो भवति, तत्र पात्रकं कल्पत्रयं सङ्घाटी स्कन्धकरणी निवसनीद्वयं चेत्यष्टविध उपधिरुत्कृष्टः । पात्रबन्धः &| पटलानि रजस्त्राणं रजोहरणं मात्रकम् अवग्रहानन्तकं पट्टकोऽोरुकं चलनी कञ्चक उत्कक्षिका वैकक्षिका|8 8|कमठकश्चेति त्रयोदशविधो मध्यमः। पात्रस्थापनं पात्रकेसरिका गोच्छको मुखवस्त्रिका चेति चतुर्विधो जघन्यः। उत्कृष्टादिविवेकश्च प्रायश्चित्तादिकार्ये उपयुज्यते । इत्युक्तं गणनाप्रमाणम् , अथ प्रमाणप्रमाणं सर्वेषामुच्यतेतत्र पात्रप्रमाणं च तिस्रो वितस्तयश्चतुरङ्गुलं च परिधिना भवति, तच्च मध्यमं ज्ञेयम् । अतो हीनं जघन्यमधिकं चोत्कृष्टं प्रमाणं ज्ञेयम्, उक्तं च-"तिन्नि विहत्थी चउरंगुलं च भाणस्स मज्झिमपमाणं । एत्तो हीण जहण्णं, | अइरेगयरं तु उक्कोसं ॥१॥” निजाहारानुसारेणापि प्रकारान्तरेण शास्त्रान्तरे प्रमाणमुक्तम् । एवं च सर्वेषां | साधूनां प्रमाणोपेतमेव पात्रं भवति । वैयावृत्त्यकरस्य तु गुरुणा दत्तं स्वीयं वा महत्प्रमाणत्वान्नन्दीपात्रं भवति, तचौपग्रहिकं न त्वौधिकम् , यतः-"वेयावच्चकरो वा, णंदीभाणं धरे उवग्गहि । सो खलु तस्स विसेसो, |पमाणजुत्तं तु सेसाणं ॥१॥” इति । एतत्प्रयोजनं चैवम्-"देजा हि भाणपूरं तु, रिद्धिमं कोइ रोहमाईसुं। तहि तस्सुवओगो, सेसं कालं तु पडिकुट्ठो॥१॥” यस्मात् भाजनपूरमेव दद्यात् ऋद्धिमान् कश्चित् रोधकादिषु आपद्विशेषेषु तत्र-रोधकादौ तस्य-नन्दीपात्रस्योपयोगः, शेषकालं तु प्रतिकुष्टस्तस्योपयोग इति । भाजनमुखप्रमाणं त्वेवम्-"अकरंडगम्मि भाणे, हत्थो ओठं जहा न घटेइ । एअं जहन्नयमुहं, वत्थु पप्पा विसालं तु ॥१॥” 'अकरंडगम्मित्ति वृत्तसमचतुरस्र इत्यर्थः, 'ओढ'ति कर्णम् । अथ पात्रप्रयोजनं यथा-"छक्कायरक्ख-18 Jan Education Intel For Private Personel Use Only M ainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy