________________
रणार्थं च ममृणवस्त्रेण, योनिस्पर्शसदृशो हि ममृणवस्त्रस्पर्शः, स च सजातीयत्वान्न प्रभवतीति, उक्तं च-"अह उग्गहणंतगं णावसंठिअं गुज्झदेसरक्खट्ठा । तं तु पमाणेणिकं, घणमसिणं देहमासज ॥१॥” इति १, पट्टोऽपि सङ्ख्ययैकः, पृथुत्वेन च चतुरङ्गुलः समतिरिक्तो वा, दैर्येण तु स्त्रीकटीमानो यथा अवग्रहानन्तकस्य द्वावप्यन्त|भागावाच्छादयन् कट्यां बध्यते २, तदुक्तम्-"पहोवि होइ एगो, देहपमाणेण सो य भइअवो । छायंतोग्ग-18 हणंतं, कडिबद्धो मल्लकच्छोव ॥१॥” इति । तथाऽध ऊरुकाद्विभजतीति निरुक्तादोरुकोऽवग्रहानन्तकपट्टमवष्टभ्य सर्व कटीभागमाच्छादयति, ऊोरन्तरे उरुद्धये च कसाबद्धः, चलनिकाऽपीदृशी, परम् अधोजानुप्रमाणा स्यूता कसानिबद्धा च, यतः-"अद्धोरुओवि ते दोवि गिहिउं छायए कडीभागं । जाणुपमाणा चलणी, असीविआ लंखिआइव ॥१॥” इति, लङ्खिका वंशोपरिनतकी ४, तथान्तर्निवसनी उपरि कटीभागादारभ्याधोऽर्द्ध
जङ्ग्रे यावद्भवति सा च लीनतरं परिधीयते, आकुलतया जनहासो मा भूदिति ५, बहिर्निवसनी च उपरि कटीबात आगुल्फ विस्तृता कट्यां च दवरकेण बद्धा भवति, यतः-"अंतोनिवसणी पुण लीणयरी जाव अद्धजंघाओ।
बाहिरगा जा खलुगा, कडीअदोरेण पडिबद्धा ॥१॥” 'जा खलुग'त्ति यावद्दुल्फम् ६, इदमधःशरीरस्य षड्विधमुपकरणं । अथोर्द्धस्योच्यते, कञ्चको तृतीयहस्तदीर्घ एकहस्तपृथुलश्च, कापालिककन्थावत्कृतोऽसीवितश्च, शिथिलबन्धेन पार्श्वद्वये कसाबद्ध उरोजावाच्छादयति, तथा कक्षासमीपमुपकक्षं, तथाऽऽच्छादिकोपकक्षिकोत्कक्षिका वा साऽप्येवंविधा स्यूता समचतुरस्रा सार्द्धहस्तमाना चोरोभागदक्षिणपार्श्व पृष्ठं चाऽऽच्छादयति, वामस्कन्धे
Jain Education Inte
For Private & Personel Use Only
lohrjainelibrary.org