SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ कल्पिकानां चतुर्दशविधः, आर्याणां च पञ्चविंशतिविधः, अत ऊर्द्ध यथासंभवमौपग्रहिक उपधिर्भवति, उक्तं च-18 "जिणा बारसरूवाणि, थेरा चउदसरूविणो । अजाणं पण्णवीसंतु,अओ उर्दु उवग्गहो ॥१॥” इति । तत्र जिनक-18 ल्पिकानां द्वादशविध उपधिर्यथा-"पत्तं पत्ताबंधो, पायट्ठवणं च पायकेसरिआ । पडलाइ रयत्ताणं, गुच्छओ पायनिजोगो ॥१॥” पात्रं पतगृहः, पात्रबन्धश्चतुरस्रं तद्वन्धनकं, पात्रस्थापनं कम्बलमयं यत्र पात्रकाणि स्थाप्यन्ते, पात्रकेसरिका पात्रप्रत्युपेक्षणिका चिलिमिलिकेति प्रसिद्धा, पटलानि भिक्षाटनकाले पात्रोपरि मोच्यवस्त्राणि, रजस्त्राणानि पात्रवेष्टनकानि प्राकृतत्वादेकत्वं, गोच्छकः कम्बलखण्डमयः पात्रोपरि देयः, एवं सप्तविधः पात्रनिर्योगः, पात्रपरिकर इत्यर्थः। “तिन्नेव य पच्छागा, रयहरणं चेव होइ मुहपत्ती । एसो दुवालसविहो, उवही जिणकप्पिआणं तु ॥१॥” प्रच्छादकाः कल्पा इत्यर्थः, तत्रैक उर्णामयो द्वौ सूत्रमयौ, (रजोहरणं तथा मुखवस्त्रिका) एषां द्वादशविध उपधिरुत्कृष्टापेक्षया, जघन्यतस्तु द्विविधोऽपि भवति । तथा चैषामुपधेर्द्विकं त्रिकं चतुष्कं पञ्चकं नवकं दशममेकादशकं द्वादशकं चेत्यष्टौ विकल्पाः, तत्र ये पाणिपात्रा अप्रावरणकाश्च तेषां मुखवस्त्रिकारजोहरणं चेति द्विविध उपधिः, सप्रावरणकानां तु तेषामेककल्पयुक्तस्त्रिविधः, द्विकल्पयुक्तश्चतुर्विधः, कल्पत्रययुक्तश्च पञ्चविधः, पात्रधारिणां पुनरप्रावरणानां सप्तविधः पात्रोपधिर्मुखवस्त्रिकारजोहरणं चेति नवविधा, एकादिकल्पयुक्तश्च दशैकादशद्वादशविधो भवतीति । स्थविरकल्पिनां च स एव द्वादशविधः चोलपट्टमात्रकयुक्त इति चतुर्दशविधः, तदुक्तम्-“एए चेव दुवालस मत्तगअइरेगचोलपट्टो अ । एसो चउदसरूवो, उवही पुण थेर Jain Education Intern For Private Personel Use Only jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy