SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ प्रत्युपेक्षका द्विविधाः-भक्तार्थिनोऽभक्तार्थिनश्च, तत्र द्वयोरप्युक्तविधिं यावत्प्रत्युपेक्षणा तुल्यैव, यत ओघनि-1 युक्तो-“पडिलेहगा उ दुविहा, भत्तहिअ एअरा उ णायवा । दोण्हवि अ पडिलेहणाओ मुहर्णतगसकायं॥१॥"ति, ततो येऽभक्तार्थिनस्ते 'पडिलेहणा पडिलेहावउ' इति भणित्वा पूर्वोक्तगुर्वनशनिग्लानादिपुरुषक्रमेण तेषामुपधि प्रतिलेखयन्ति, ततो गुरुं संदिशाप्य 'संदिसह इच्छाकारेण ओहि पडिलेहेम' एवं भणित्वा पात्रक मात्रकं चात्मीयं ततश्च सकलमुपछि प्रत्युपेक्षते, प्रान्ते च चोलपह, तदुक्तं तत्रैव-"तत्तो गुरूपरिण्णागिलाणसेहाइ जे अभत्तट्ठी। संदिसह पायमत्ते, अप्पणो पट्टगं चरिमं ॥१॥” इत्यौपवासिकप्रतिलेखनाविधिः । भक्तार्थिनस्तु-मुखवस्त्रिकाप्रतिलेखनानन्तरं चोलपह, ततो मात्रक, क्षुल्लभाजनं यदि रिक्तं भवति तदा, अरिक्तं तु पश्चादपीति ज्ञेयं, ततः सपरिकरं स्वपतनहं, तत्राप्ययं क्रमः-प्रथमं गोच्छकं ततः पात्रप्रतिलेखनिकां ततः18 पात्रबन्धं ततः पटलानि ततो रजस्त्राणं ततः पात्रस्थापनं ततः पतदहं ततोऽरिक्तत्वात् पूर्व मात्रं न प्रत्युपेक्षितं स्यात्तदा प्रत्युपेक्षितपतगृहे तत्स्थं निक्षिप्य मात्रक, ततो गुर्वादीनां सत्कानुपधींश्च प्रत्युपेक्षते, ततो गुरुमनुज्ञापयति यदुत-संदिसह ओहि पडिलेहेमोत्ति ततः शेषाणि गच्छसाधारणानि पात्राणि वस्त्राणि च अपरिभोग्यानि यानि यानि तानि प्रत्युपेक्षते, ततः स्वकीयं कल्पत्रिकम् औपग्रहिकमुपधिं चापि यावत्पादप्रोञ्छनं रजोहरणं चेति भक्तार्थिनां प्रत्युपेक्षणाविधिः, तदुक्तमोघनियुक्तो-“पगमत्तयसगमोग्गहो अ गुरुमाइआ अणुण्णवणा । तो सेसभाणवत्थे, पाउंछणगं च भत्तट्ठी ॥१॥ जस्स जहा पडिलेहा, होइ कया सो तहा Jain Education in For Private Personal Use Only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy