________________
धर्मसंग्रहे अधिकारः
प्रतिलेखनाविधिः
सीहिअंकाउं। इरिआपडिकमणेणं, गमणागमणाइ विअडंति ॥१॥” इति। ततश्च तृतीयपौरुष्या यदि भागोऽवशिष्टो भवति तदा खाध्यायं करोति, यावच्चरमपौरुषी प्राप्ता भवति, यत ओघनियुक्तौ-"सन्नाए आगओ चरमपोरिसिं जाणिऊण ओगाढं। पडिलेहए अपत्तं, नाऊण करेइ सज्झायं ॥१॥” 'ओगादति अवगाढामागतां ज्ञात्वा प्रत्युपेक्षणं करोति, अप्राप्तां तु चरमां ज्ञात्वा स्वाध्यायं चेति, समये समये क्रियमाणानां कार्याणां खसमयावशेषे स्वाध्यायस्यैवौचित्याद् , यदुक्तं दिनचर्यायाम्-"कजस्स य कन्जस्स य, समए समए अ कजमाणस्स । जइ हुन्ज समयसेसं, तत्थ करिजा य सज्झायं ॥१॥” इति । प्राप्तायां च तस्यां किं कर्त्तव्यमित्याह-'शेष'इत्यादि। 'अथेति तृतीयपौरुषीसमात्यनन्तरं 'पश्चिमे यामे' चरमप्रहरे 'शेषे अवशिष्टे सति 'उपधेः' औधिकौपग्रहिकभेदभिन्नोपकरणस्य 'प्रतिलेखना' प्रत्युपेक्षणा, अन्वयः प्राग्वत् । अपराह्नप्रतिलेखनायां सर्वस्याप्युपकरणजातस्य प्रतिलेख्यत्वात् 'सवं पुण पच्छिमे जामे' इत्याद्यागमात्, तत्र विधिश्च पूर्वमुक्त एव, यश्च विशेषः स प्रदर्यते, तद्यथा-चरमपौरुष्यां प्राप्तायामेकः साधुः क्षमाश्रमणपूर्व 'भगवन् ! बहुपडिपुन्ना पोरिसीति तत्समयं गुरवे निवेदयति, ततः सर्वेऽपि सम्भूयापथिकीप्रतिक्रमणपूर्व एकेन क्षमाश्रमणेन 'भगवन् ! पडिलेहणं करेमो त्ति, द्वितीयेन च तेन 'भगवन् ! वसतिं पमज्जेमोत्ति भणित्वा मुखवस्त्रिकां कायं च प्रतिलेखयन्ति, तदुक्तं दिनचर्यायाम्-“पच्छिमजामं सेसं, सम्मं जाणितु समयतत्तन्नू । वागरइ खमासमणी, पत्तो पडिलेहणासमओ॥१॥ पभणंति खमासमणं, गुरुं तओ साहुणोवि पढमंमी । पडिलेहणं करेमो, बिइए वसहिं पमजेमो ॥२॥" अत्र
॥६१॥
Jain Education Intern
For Private & Personel Use Only
www.jainelibrary.org