________________
ण्डिलाच स्थण्डिलं सङ्कामतां साधूनामेतद्विधेरुक्तत्वात् , तथा चौघनियुक्ति:-"उउबद्धे रयहरणं, वासावासासु पायलेहणिआ । वडउंबरेपिलक्खू तस्स अलंभंमि चिंचिणिया ॥१॥” वटोदुम्बरप्लक्षान्यतरमयी तदभावे
आम्लिकामयी कार्येत्यर्थः । तन्मानादि त्वेवम्-"बारसअंगुलदीहा, अङ्गुलमेगं तु होइ विच्छिण्णा । घणमसिKणनिव्वणाविअ, पुरिसे पुरिसे अ पत्तेयं ॥१॥” 'निर्बणे'ति निर्ग्रन्थिः । “उभओणहसंठाणा सञ्चित्ताचित्तका
रणा मसिणा" इति पूर्वार्द्धम् , उभयोः पार्श्वयोनखसंस्थाना नखवत्तीक्ष्णा, तत्प्रयोजनमाह-सचित्ताचित्तकारणादेकेन पार्श्वेन सचित्तः पृथ्वीकायोऽपरेणाचित्तः संलिख्यते, कीदृशी सा?-'मसिण'त्ति महणा क्रियते, नातितीक्ष्णा, यतो लिखत आत्मविराधना न स्यात् । एवं च यतनया वसतिद्वारमागत उदारखरेण नैषेधिकीं कृत्वा पादप्रमार्जनादिविधिना प्रविशति वसतिमिति तृतीयपौरुषीकृत्यानि ॥ ८५॥ साम्प्रतं तत्रागमानन्तरं यत्कर्त्तव्यं तदाह
आगत्य वसतौ गत्यागत्योरालोचनं स्फुटम् । शेषेऽथ पश्चिमे याम, उपधिप्रतिलेखना ॥ २५॥ 'वसतौ'उपाश्रये 'आगत्य' उक्तविधिना प्रविश्य 'गत्यागत्योः' गमनागमनयोरालोचनं-गुरुपुरतो निवेदनम् अन्वयः प्राग्वत्, कथं स्फुट-प्रकटं भवति(यथा)तथा नतु यथाकथञ्चित्, अयं भावः-उपाश्रये प्रविश्येर्यापथिकीं प्रतिक्रम्य गमनागमनसम्भवविराधनामालोचयतीति, तदुक्तं दिनचर्यायाम्-"गंतूण वसहिदारे, उदारसद्दे नि
Jain Education Intem
For Private & Personel Use Only
www.jainelibrary.org