________________
Jain Education Intern
| १२३४५६७८९१०| इह चाधस्त्यराशिपर्यन्तेऽधो एकस्तस्यानन्तरो द्विकस्तेनोपरितन राशिसत्कः प्रथमो | १०९८७६५४३२१ दशको भज्यते, तत्र पञ्च लभ्यन्ते, यतो दश द्विधा विभक्ताः पञ्चैव भवन्ति, तेन च | पञ्चकेन तस्योपरि यो नवकः स गुण्यते, जाता पञ्चचत्वारिंशत्, पुनरधस्त्यानन्तरस्त्रिकस्तेन पञ्चचत्वारिंशद्भज्यन्ते, तत्र पञ्चदश लभ्यन्ते, यतः ४५ त्रिधा भक्ता १५ भवन्ति, तेन पञ्चदशकेन तस्योपरि योऽष्टकः स गुणितः विंशत्युत्तरं शतं भवति, पुनश्चाधस्त्यानन्तरश्चतुष्कस्तेन विंशत्युत्तरशतं भज्यते, तत्र त्रिंशाल्लभ्यन्ते, तैस्त्रिंशद्भिस्तस्योपरि यः सप्तकः स गुणितो द्वे शते दशोत्तरे भवतः, पुनश्चाधस्त्यानन्तरः पञ्चकस्तेन दशोत्तरे द्वे शते विभज्येते, तत्र द्विचत्वारिंशल्लभ्यन्ते, तैश्च तस्योपरि यः षट्ङ्कः स गुणितो द्विपञ्चाशदुत्तरे द्वे शते भवतः, इत्येवं सर्वत्र भावना कार्या, सङ्ख्या चेयं - "दस पणयाल विसुत्तरसयं च दोसय दसुत्तरा दो य । बावन्न दोदसुत्तर विसुत्तरं पंचचत्ता य ॥ १ ॥ दस इक्को अ कमेणं, भंगा एगाइचारणाए उ । सुद्धेण समं मिलिआ, भंगसहस्सं चउवीसं ॥ २ ॥ " स्थापना - १ २ ३ ४ ५ ६ ७ ८ ९ १० त्रयोविंशत्युत्तरं सहस्रमशुद्धभङ्गानां भवति, चतुर्विंशस्तु शुद्धः, त- १० ४५ १२० २१०२५२२१० १२० ४५ १० १ | त्पक्षे च यथोक्तसङ्ख्यैवेति भावार्थः । एवंविधे च शुद्धे स्थण्डिले प्राप्तस्यायं विधिः- “दिसिपवणगाम सूरिअछायाऍ पमज्जिऊण तिक्खुत्तो । जस्सुग्गहोत्ति काऊण वोसिरे आयमेज्जा वा ॥ १ ॥" संज्ञां व्युत्सृजता साधुना दिशि पूर्वायामुत्तरायां च पृष्ठं न देयं, लोकविरोधात्, रात्रौ च दक्षिणस्यां पृष्टं न देयं, रात्रौ दक्षिणस्या दिश उत्तरस्यां दिशि देवाः प्रया
For Private & Personal Use Only
www.jainelibrary.org