________________
४ावच्चइ एवं तु अन्नसमं ॥१॥” संघाटकवानेकोऽन्यतरः द्वयोरपि पात्रे धारयति, द्वितीयस्तु संघाटकवान् ब्रजति,
एवमन्यसंघाटकसाधुसममिति । ते च कथं गच्छन्तीत्याह-"अजुगलिआ अतुरंता, विगहारहिआ वयंति पढम, तु। निसिइत्तु डगलगहणं, आवडणं वच्चमासज्ज ॥१॥" अयुगलिता इति असमश्रेणिस्था व्रजन्ति, तत्र चङ्कम-121 णभुवं प्राप्य प्रथमं निषद्य-उपविश्य डगलकानाम्-अधिष्ठानप्रोञ्छनार्थ इष्टकाखण्डानां लघुपाषाणखण्डानां वा ग्रहणं करोति, 'आवडणं'ति प्रस्फोटनं तेषां करोति, जन्तुसंभवात् , किंप्रमाणमत आह-वर्च-पुरीषमङ्गीकृत्य श्लथंाश कठिनं वा तत् ज्ञात्वा तदनुरूपाणि डगलानि गृह्णातीत्यर्थः । ततस्तानि गृहीत्वोत्थाय च स्थण्डिले उपविशति, कीदृश इत्याह-"अणावायमसंलोए १, परस्सणुवघाइए २।समे ३ अज्झुसिरे ४ आवि, अचिरकालकयंमि य ५ ॥१॥” अनापातोऽनभ्यागमः असंलोकोऽदर्शनं छन्नत्वात्तदुभयं परस्य यस्मिन् तदनापातासंलोकं स्थण्डिलं, लोकस्य तस्मिन् आपातश्च तिर्यग्मनुष्यस्वपक्षपरपक्षसंयतसंयतीसंविग्नासंविग्नसमनोज्ञामनोज्ञसंविग्नपाक्षिकासंविग्नपाक्षिकपुंस्त्रीनपुंसकदण्डिककौटुम्बिकशौचाशौचवाद्यादिविषयो बहुविधः, तत्र खपक्षसंयतसंविग्नमनोज्ञापातवति गन्तव्यम्, अमनोज्ञापातवति च सामाचारीविपर्यासदर्शनेन शैक्षाणां विपरिणमनभयान्न गन्तव्यं,18 संयत्यापातवति तु सवथा न गन्तव्यं, परपक्षशौचवादिनामापाते च प्रचुरद्रवेण पादक्षालनाऽऽचमने कार्ये, प्रत्येक च सपानकानि पात्रकाणि भवन्तीति यतना कार्या । संलोकश्च तिरश्चां न दोषायान्येषां तु प्राग्वत् । अत्र पदद्वयेन चतुर्भङ्गी भवति, तत्राद्यः शुद्धः। तथाऽनुपघाते उड्डाहादिरहिते, तथा समे-अलुठने, लुठने हि आत्मप
in Education
For Private Personel Use Only
W
w.jainelibrary.org