________________
धर्मसंग्रहे अधिकारः
३
॥ ५८ ॥
Jain Education Int
वेलायां भवति सा काले संज्ञा, अथवा या जेमनानन्तरं सा काले, शेषाऽकाले संज्ञा, तत्राकालसंज्ञा प्रथमपौरुष्यां यदि भवति तदाऽसौ साधूनां पृच्छति, यदुत भवतां किं कश्चिचङ्कमणभूमिं यास्यति न वेति, तथा तरिकारहितमगन्धं चतुर्थरसवच्च जलं चङ्क्रमणदिशोऽन्यया दिशा गृह्णाति येन सागारिकशङ्का न भवति यदुतैते काञ्जिकेन शौचं कुर्वन्तीति, यत ओघनिर्युक्तौ - "कालमकाले सण्णा, कालो तइआइ सेसयमकालो । पढमा पोरिसी आपुच्छमाणगमपुप्फमन्नदिसि ॥ १ ॥" 'अपुप्फ'त्ति तरिकारहितं येन खच्छतयोदक भ्रान्तिर्भवतीति, उपलक्षणत्वादगन्धादि च । तथा - " अइरेगगहणउग्गाहिएण आलोअ पुच्छिउं गच्छे । एसा उ अका|लंमी, अणहिंडिअहिंडिआकालो ॥ २ ॥” अतिरेकपानकं गृह्यते, कदाचिदन्यसाधोः कार्यं भवेत्, सागारिकपुरस्ताद्वा उच्छोलनादि क्रियते, तथा उद्भाहितेन - पात्रबन्धबद्धेन पात्रकेणानीय गुप्तं सत् आचार्यस्यालोच्यते, तमेव च पृष्ट्वा चङ्क्रमणिकया गच्छन्ति, इयमकाले संज्ञा अहिण्डकानां सतां भवति, कालसंज्ञा पुनर्हिण्डकानां भिक्षाटनोत्तरकालं जेमनानन्तरं वा या भवतीति । तत्र च गमनविधिरेवम्- “कप्पेऊणं पाए, एक्केक्स्स उ दुवे पडिग्गहए । दाउं दो दो गच्छे, तिण्हड दवं तु घेत्तृणं ॥ १ ॥” पात्रकाणि कल्पयित्वा पुनरेकैकस्य साधोः पतनहद्वयं दत्त्वा एतदुक्तं भवति-योऽसौ तिष्ठति साधुस्तस्यात्मीय एवैकः पतद्वहो द्वितीयं तु तं योऽसौ चङ्क्रमणभूमिं प्रयाति स दत्त्वा याति तथा द्वौ द्वौ गच्छतः, नैककः । तत्र च त्र्याणां साधूनामर्थे यावदुदकं भवति | तावन्मात्रं तौ गृहीत्वा व्रजतः, पञ्चवस्तुकेऽपि - "कप्पेऊणं पाए, संघाडइलो उ एग दोपहंपि । पाए धरेवि बीओ,
For Private & Personal Use Only
स्थण्डिल. गमनं
॥ ५८ ॥
www.jainelibrary.org