________________
किं कर्त्तव्यं ? इत्याह-'पुनरित्यादि, पुनर्भोजनानन्तरं, 'चैत्यनमस्क्रिया' चैत्यवन्दनं, तच्चेर्यापथिकीप्रतिक्रमणपूर्वकशक्रस्तवभणनरूपं ज्ञेयं ॥ ८४ ॥ इदानीं तदनन्तरं यत्करणीयं तदाहगुरुवन्दनपूर्व च, प्रत्याख्यानस्य कारिता । आवश्यिक्या बहिर्गत्वा, स्थण्डिले विविसर्जनम् ॥ २४ ॥
गुरोर्वन्दनं बादशावर्त्तलक्षणं तत्पूर्व तत्कृत्वेत्यर्थः, 'चः' समुच्चये, प्रत्याख्यानस्य' दिवसचरमलक्षणस्य 'कारिता' करणं पूर्ववदन्वयः । यद्यपि प्रागेवैकाशनकं प्रत्याख्यातं तथाप्यप्रमादार्थ भुक्त्वा प्रत्याख्यानं कार्य, वन्दनकं च मुखवस्त्रिकाप्रतिलेखनपूर्व ज्ञेयम् , यतो दिनचर्यायाम्-"विहिणा जेमिअ उहिअ, इरिअं पडिक्कमिअ भणिअ सक्कथयं । पुत्तिं पेहिअ वंदणमिह दाउं कुणइ संवरणं ॥१॥” इति । अत्र चायं विशेषस्तदुक्तो ज्ञेयः"सोहिअ पत्ताबंध, सम्मं निम्मजिआणि पत्ताणि । बंधित्तु तेण विहिणा, ठविज जा [पडिलेहणासमओ ॥१॥ कहविहु पमायवसओ, पत्ताबंधो खरंटिओ हुज्जा । पडलाई अहव कप्पो, कप्पिजसु ताणि जयणाए ॥२॥ पढमं लूहिजंते, चीवरखंडेण जेण पत्ताणि । तं णिचं धोविजइ, अन्नह कुच्छाइआ दोसा ॥३॥” ततः किं कर्तव्यमित्याह-'आवश्यिक्या' पूर्वोक्तलक्षणया हेतुभूतया, निष्कारणे साधूनां वसतेबहिर्गमनस्याकल्प्यत्वात् , 'बहिभूमौ 'गत्वा' व्रजित्वा 'स्थण्डिले' विचारभूमौ 'विडिसर्जन' पुरीषोत्सर्गः । अत्र स्थण्डिले गच्छतामियं मेरा, तथाहि-संज्ञा द्विधा-काले अकाले च, तत्र या सूत्रपौरुषीमर्थपौरुषी च कृत्वा कालं च प्रतिक्रम्य जातायां
Jain Education inte
For Private & Personel Use Only
(Glow.jainelibrary.org