________________
आचाम्लादितपा गुर्वाज्ञया तावन्मात्रं तद्भले परिष्ठापयति वा निरवद्यभूम्यां, अत्र च विधिगृहीतविधिपरिष्ठा-12 पितादिचतुर्भङ्गी ज्ञेयेति ग्रासैषणाविधिः। इदानीं भोजनानन्तरं यत्कर्त्तव्यं तदाह-'यतने'त्यादि चः पुनः 'पात्र| शुद्धौ' पात्रप्रक्षालने 'यतना' यत्नशुद्धिः सापेक्षयतिधर्मो भवतीति क्रियान्वयः, तत्र प्रथमकल्पः पूर्वमुक्त एव ।। द्वितीयं च प्राग्गृहीताच्छोदकेन बहिर्ददाति, तत्र च प्रक्षालनभूमौ सर्वेऽपि मण्डल्याकारेणोपविशन्ति, मध्ये | |च स्थितोऽच्छद्रवधारी सर्वेषां पात्रप्रक्षालनार्थ द्रवं ददाति, ददति च ततस्ते साधवस्तृतीयं कल्पं, गुरोश्च पात्रं प्रथममेव पृथक् प्रक्षाल्यते, शेषसाधूनां तु प्रथमं यथाकृतं पात्रं, ततो यथाविशुद्धमिति, तदुक्तं दिनचर्यायाम्"गुरुणो पत्तं भिन्नं, कप्पिज अहागडं तु सेसेसु । पढमं पक्खालिज्जा, जहाविसुद्धं तु सेसाणं ॥१॥” इति ।।४ पात्रप्रक्षालनानन्तरं च द्वयोः द्वयोः साध्वोः पात्रकेषु निर्लेपनार्थमुदकं दत्ते, तदुक्तमोघनियुक्तौ-“दाऊण बितिअकप्पं, बहिआ मज्झढिओ उ दवहारी । तो दिति तइअकप्पं, दोण्हं दोण्हं तु आयमणं ॥१॥” इति । इदं च सागारिकाभावे ज्ञेयं, सति तु तस्मिन् मण्डल्यन्तरेऽपि प्रक्षालयन्तीत्युक्तं पञ्चवस्तुके-"अह भुंजिऊण जोग्गा, पच्छा होऊण पत्तए ताहे । जोग्गा धुवंति बाहिं, सागरिए णवरमंतो वा ॥१॥” आधाकर्मादिज्ञाने तु कल्पान् प्रवर्द्धयते, यदुक्तं तत्रैव-"अच्छदवेणुवउत्ता, हिरवयवे देंति तेसु कप्पति। णाऊण व परिभोगं,
कप्पं ताहे पवटुंति ॥१॥” 'परिभोग'ति आधाकर्मादि । तथा दत्तेऽपि द्वितीयतृतीयकल्पे बहिर्यदि प्रेक्षेत IS| कथञ्चिदवयवं ततः प्राग्गृहीतेनैवान्तर्जलेन कल्पान् बहिः कुर्यान्न पुनस्तद्भङ्गभयादन्यद्गृहीयाद्, उक्तं च तत्रैव-18
Jan Education inte
For Private Personel Use Only
jainelibrary.org