SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥ ५६ ॥ Jain Education Inte | व्याधये वेति प्रमाणातिरिक्ततादोषः २ । खाद्वन्नं तद्दातारं वा प्रशंसयन् यद्भुङ्क्ते स रागाग्निना चारित्रेन्धन| स्याङ्गारीकरणादङ्गारदोषः ३ । निन्दन् पुनश्चारित्रेन्धनं दहन् धूमकरणाद्धमदोषः ४ । वक्ष्यमाणषड् भोजनकार| णाभावे भुञ्जानस्य कारणाभावो दोषः ५ । कारणानि च भोजने क्षुद्वेदनाया असहनं १, क्षामस्य च वैयावृत्याकरण २ मीर्यासमितेरविशुद्धिः ३, प्रत्युपेक्षाप्रमार्जनादिलक्षणस्य संयमस्य चापालनं ४, क्षुधातुरस्य प्रबलारत्युदयात् प्राणप्रहारशङ्का ५ आर्त्तरौद्रपरिहारेण धर्मध्यानस्थिरीकरणं ६ चेति षट्, यत:- "वेअण १ वेयाबच्चे २, इरिअट्ठाए अ ३ संजमट्ठाए ४ । तह पाणवत्तिआए ५, छटुं पुण धम्मचिंताए ॥ १ ॥” इति । एभिरपि | कारणैर्भुञ्जानः साधुरशनादेः षङ्गागान् कल्पयति, यतो दिनचर्यायाम् - "अद्धमसणस्स सर्वजणस्स कुज्जा दवस्स दो भाए । वायपविआरणट्ठा, छन्भायं ऊणयं कुणइ ॥ १ ॥” इति । आहारप्रमाणं च पुंसां द्वात्रिंशत्कवलाः, स्त्रीणां चाष्टाविंशतिः, यदाह - " बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस्स य महिलाणं, अट्ठावीसं हवे कवला ॥ १ ॥ " गोरसभोजने त्वयं विधिस्तत्रैव - "विदलं जमिअ पच्छा, मुहं च पत्तं च दोवि धोएज्जा | अहवावि अन्नपत्ते, भुंजिज्जा गोरसं णिअमा ॥ १ ॥” ततश्चाहारे कवलत्रयप्रमाणावशेषे भक्तविलितपात्राणां संलिहनं कुर्यात्, कृत्वा च तत्पात्रेषु कलुषोदकेन प्रथमकल्पं दत्त्वा पिवति, ततो मुखं प्रमाये द्वितीयकल्पार्थं चाच्छद्रवं ग्रहीत्वा मण्डल्या बहिः पात्रप्रक्षालनार्थं गच्छति, उक्तं च दिनचर्यायाम् - "पत्ताणं पक्खालणसलिलं पढमं पिबंति निअमेणं । सोहंति मुहं तत्तो, बाहिं पत्ताणि धोवंति ॥ १ ॥” उद्धरिते तु भक्ते For Private & Personal Use Only भोजनविधिः ॥ ५६ ॥ w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy