SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ द्विविधं, तत्र पात्रात्कटकच्छेदेन प्रतरच्छेदेन सिंहभक्षितेन वा ग्रहीतव्यम् , अत्रायं वृद्ध सम्प्रदाय:-"कडगच्छेओ णाम जो एगाओ पासाओसमुद्दिसइ ताव जाव उच्चहो"यथा कलिङ्गस्य खण्डं छित्त्वाऽपनीयत एवं भुंक्त इत्यर्थः।। तथा 'एगयरेणं पयरेणं' एकैकप्रतरच्छेदनेनेत्यर्थः। तथा 'सीहो जत्तो आरभेइ तत्तो चेव निट्टवेइ'त्ति । कव-11 लप्रक्षेपणं त्वेवं, यतः-"असुरसुरं अचवचवं, अहुअमविलंबिअं अपरिसाडि । मणवयणकायगुत्तो, भुंजे अह प-15। क्खिवणसोही ॥१॥” इति । एवं च भुञ्जानानां यदि पतद्वहो भ्रमन्नेवा पथे निष्ठितो भवति तदा तस्मिन्नपरं भक्तं प्रक्षिप्याग्रे भ्राम्यते । बालादिप्रायोग्यं यदद्धरितं तदसंसृष्टं सत् पतगृहे क्षिप्त्वाऽग्रे भ्राम्यते, गुरुसंबन्धि पातु संसृष्टमपि मण्डलीपतगृहे प्रक्षिप्य बालादीनां दीयते, अन्योद्धरितं संसृष्टं तु न मण्डलीपतगृहे प्रक्षिप्यते || &| इत्यादि ४ । शोधिश्च भोजनविषया संयमयात्राधर्मसाधनशरीरधारणाद्यर्थ षट्चत्वारिंशद्दोषरहिताहारग्रहणे || भवति । यद्यपि च दोषा द्विचत्वारिंशत् प्रागुक्ता ग्रासैषणायाश्च पञ्चेति सप्तचत्वारिंशद्भवन्ति, तथाप्यत्र कारणरूपसप्तमद्वारे तत्प्रतिपक्षत्वात् कारणाभावलक्षणस्य ग्रासैषणापश्चमदोषस्य खातव्येण वक्ष्यमाणत्वादुक्तसंख्या न विरोधायेति । ग्रासैषणायाश्च दोषा अमी-संयोजना१प्रमाणातिरिक्तता २ अङ्गारो ३ धूमः ४ कारणाभावश्चेति, यतः-"संजोअणा १ पमाणे २ इंगाले ३ धूम ४ कारणे ५ चेव । उवगरण भत्तपाणे, सबाहिरन्भंतरा पढमा ॥१॥” इति । तत्र लोभाव्यस्य मण्डकादेव्यान्तरेण खण्डघृतादिना वसतेबहिरन्तर्वा योजनं संयोजना १। धृतिबलसंयमयोगा यावता न सीदन्ति तावदाहारप्रमाणम्, अधिकाहारस्तु वमनाय मृत्यवे Jain Education Inter For Private & Personel Use Only N w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy