________________
धर्मसंग्रहे अधिकारः
३
॥ ५४ ॥
Jain Education In
| विधः साधुरेको मण्डल्युपजीवक इतरश्च कारणे केवल भोक्ता, केवल भोजिनश्वामी - आगाढजोगवाही, निजूढत्तद्विआ व पाहुणगा । सेहा सपायछित्ता, बाला बुड्ढेवमाईआ ॥ १ ॥” आगाढयोगवाहिनो गणियोगवाहिनः निर्यूढा अमनोज्ञाः तथाऽऽत्मार्थिका एते पृथक् भुञ्जते, प्राघूर्णकाणां तु प्रागेव पर्याया दीयते, ततस्तेऽप्येकाकिनो भुञ्जते । शैक्षा अनुपस्थापितत्वेन सागारिकाः, सप्रायश्चित्ताः शबलचारित्राः, बालवृद्धास्त्वसहिष्णुत्वात् प्रागेव भुञ्जते, आदिशब्दात् कुष्ठ्यादयः, एते मण्डल्यामसमुद्देशका भवन्ति । तत्राद्यो यावत् सर्वेऽपि मण्डलीभोक्तारः पिण्डीभवन्ति तावत्प्रतीक्षन्ते, मिलितैश्च तैः सह भुङ्क्ते इदं सहिष्णुमाश्रित्य ज्ञेयं, असहिष्णोस्तु | प्रागुक्तकारणत्रयेण मात्रके प्रक्षिप्य प्रथमालिका दीयते, बहुष्वसहिष्णुषु तु तेभ्यो भक्षणार्थं पतद्ब्रहो मुच्यते इति । मण्डल्यनुपजीवकस्तु गुरुसमीपे गत्वा 'संदिसह भंते! पाहुणगखवगअतरंतबालवुडसेहाण देह इमं ति भणति, मण्डलीभोक्ताऽपीत्थमेव भणति, यदुक्तं तयोः - "दुविहो अ सोवि साहू, मंडलिउवजीवओ अ इअरो अ । मंडलि उवजीवंतो, अच्छइ जा पिंडिआ सवे ॥ १ ॥ इअरो अ गुरुसगासे, गंतूणं भणइ संदिसह भंते । । | पाहुणखवणगअतरंतबालवुड्डाण सेहाणं ॥ २॥” संदिसहत्ति ददत (ध्वं), 'अतरंत' ति असमर्थः, एवमुक्तो गुरुस्तदा| ज्ञया स्वयं वा तेभ्यो दत्ते । अनिच्छतोऽपि निमन्त्रणे विशुद्धपरिणामेन निर्जरैव वैयावृत्त्यस्य महाफलत्वादिति | प्रतिपादिता ग्रहणैषणा । अधुना ग्रासैषणाधिकारः, तत्र तावद्रक्षापालेन पात्राण्युद्वाह्य स्थेयम्, आगतेषु च हिण्डकेषु आचार्याद्यर्थं नन्दीपात्रे जलं खच्छीकार्यं गलनीयं च, गलित्वा च तस्य गच्छानुसारेणैकं द्वौ त्रीणि वा
For Private & Personal Use Only
भोजनविधिः
॥ ५४ ॥
www.jainelibrary.org