________________
ओधनियुक्तौ तु स्वाध्यायं प्रस्थाप्यान्तर्मुहूर्त स्वाध्यायं कुर्यादित्युक्तं इत्यालोचनाविधिः । ततः किं कर्त्तव्यमि-18 त्याह-ततः' इत्यादि, ततः-आलोचनानन्तरं चैत्यवन्दनं प्रसिद्धं, तदादिर्विधिविधानं अन्वयः प्राग्वत् । अत्रादि-18 शब्दात् पूर्वकृतप्रत्याख्यानपारणाविधिर्गृहीतः, स च प्रसिद्ध एव । यच्च दिनचर्यायां कायोत्सर्गानन्तरं एव प्रत्या-18 ख्यानपारणमुक्तं तत्रापि तचैत्यवन्दनपूर्वकमेव ज्ञेयं, एतच्चैत्यवन्दनसंबद्धत्वात् प्रत्याख्यानपारणक्रियायाः।। यतो भाष्ये सप्तसु तेषु मध्ये इदं जेमनाख्यमित्युक्तम् , तथा च तद्गाथा-"पडिकमणे चेइअ जिमण, चरिमपडिकमण सुअण पडिबोहे । चिइवंदण इअ जइणो, सत्त उ वेला अहोरत्ते ॥१॥" चैत्यवन्दनानन्तरं च जघन्यतोऽपि षोडशश्लोकप्रमाणं खाध्यायं कुर्यादित्युक्तं दिनचर्यायाम्-"मुंचइ भत्तं पाणं, सम्मं जिणनाहवंदणं | कुणइ । सोलससिलोगमाणं, जहन्नओ कुणइ सज्झायं ॥१॥” इति, पञ्चवस्तुके त्वेवम्-“धम्मं कहं णु कुजा,
संजमगाहं च णिअमओ सवे । एत्तहमेत्तं चन्नं, सिद्धं जं जंमि तित्थंमि ॥१॥” 'संयमगाहंति 'संयमे सुहिअप्पादाणमित्यादि ८३ ॥ अथ तदनन्तरं यत्कर्त्तव्यं तदाह
गुर्वादिच्छन्दनापूर्व, विधिना भोजनक्रिया । यतनापात्रशुद्धौ च, पुनश्चैत्यनमस्क्रिया ॥ २३ ॥
गुरुराचार्य आदिशब्दात् माघूर्णकादयस्तेषां छन्दना-आनीताहारेण निमन्त्रणा तत्पूर्व तां कृत्वेत्यर्थः, 'विधिMS ना' वक्ष्यमाणेन 'भोजनक्रिया' भोजनविधानं प्रस्तुतधर्मो भवतीत्यन्वयः। अत्रादौ निमन्त्रणाविधिर्यथा-द्वि
Jain Education
For Private
Personel Use Only
R
w.jainelibrary.org