________________
धर्मसंग्रहे अधिकारः
३
॥ ५३ ॥
Jain Education Inte
दि गृहकोकिलादि वा अधो निम्नोन्नतादि भूप्रदेशं तिर्यक् च माजरादीन् प्रत्युपेक्ष्य पतद्वहं च हस्ते कृत्वाऽर्द्धावनतकायो गुरोर्दर्शयति, तदुक्तं तयोरेव - "आलोइन्ता सवं, सीसं सपडिग्गहं पमज्जित्ता । उडुमहो तिरिअंपि अ, पडिले सङ्घओ सवं ॥ १ ॥ काउं पडिग्गहं करयलंमि अद्धं च ओणमित्ताणं । भत्तं वा पाणं वा, पडिदंसेज्जा गुरुसगासे ॥ २ ॥” इति । शीर्षप्रमार्जनं च हस्तस्थे पतद्रहेऽवनमतः शिरसः प्रतिपातसम्भवात्, सपटलपतप्रमार्जनं च उद्घाट्यमानपात्रबन्धपटलानां सङ्कोचे त्रसादिविनाशभवनादिति । ततोऽनन्तरं नृत्यचलना| दिप्रकारेण दुरालोचित भक्तपाननिमित्तं एषणानेषणयोरनाभोगनिमित्तं वा 'भातपाणी दुरालोइअ दुप्पडिक्कंता इच्छाकारेण संदिसह भगवन् ! गोअरचरी पडिक्कमउं ? इच्छं इच्छामि पडिक्कमिडं गोअरचरीआए' इत्येवमादिसूत्रं पठित्वा कायोत्सर्गं करोति । तत्र च 'अहो जिणेहिं असावज्जा' इत्येवमादिगाथां ध्यायेत्, यतो दिनच| ययाम् - "जं किंचि दुरालोइअमणेसणिज्जं भविज भत्ताई । तप्पडिकमणनिमित्तं, उस्सग्गं कुणइ इअ विहिणा ॥ १ ॥ इच्छामि पडिक्कमिडं, गोअरचरिआइ एवमाईअं । उच्चरिऊणं सुत्तं काउस्सग्गे विचिंतेइ ॥ २ ॥ "अहो जिणेहिं असावज्जा, वित्ती साहूण देसिआ । मुक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥ ३ ॥ " ओघनियुक्ती - "पंचमंगलं । 'जह मे अणुग्गहं कुज्जा साहू हुज्जामि तारिओ' इत्येवमादिगाथाद्वयं वा ध्यायेदित्युक्तं, तथा च तत्पाठ:- "ताहे दुरालोइअभत्तपाणएसणमणेसणाए व । अङ्कुस्सासे अहवा, अणुग्गहादी उ झापज्जा ॥ १ ॥” इति । ततो नमस्कारेण तं पारयित्वा चतुर्विंशतिस्तवं च पठित्वा भूमिं प्रसृज्य भक्तं पानं च मुञ्चति ।
For Private & Personal Use Only
आलोचनाविधिः
॥ ५३ ॥
w.jainelibrary.org