SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte | लोए । आहारं च करेंते, णीहारं वा जइ करेइ ॥ १ ॥ " आहारं कुर्वत आलोचने तच्छ्रवणेनान्तरायनिमित्तं स्यात्, शेषं तु सुयोजं। आलोचयंश्च नृत्यं चलनं चालनं गृहस्थभाषां मौक्यं ढहरं च वर्जयेत् । कथयति च दात्रीहस्तं मात्रं चोदकार्द्रादि तच्चेष्टां च, यतस्तत्रैव - "नहं चलं चलं भासं, मूअं तह ढड्ढरं च वज्जेज्जा । आलोएज सुविहिओ, हत्थं मत्तं च वावारं ॥ १ ॥” तत्र नृत्यं करपादभ्रूशिरोऽक्ष्योष्ठादीनां सविकारं, चलनं हस्तशरीरयोः, चालनं कायेन भावेन च तत्र कायेन मोटनादि, भावेन च चारुभिक्षागूहनं, भाषां गृहस्थसंबंधिनीं, संयतभाषयाऽऽलोचयितव्यमित्यर्थः, मौक्यं अव्यक्तभाषणं, ढड्ढरखरं महानिर्घोषमिति । एतद्दोषरहितं गृहीतानुक्रमेणैव सर्व गुरोरालोचयेदित्येष उत्सर्गत आलोचनाविधिः । अपवादतस्तु कालेऽपर्याप्यमाणे स्वयं गुरौ वा क्रमेण भिक्षाटनचिन्तनकादिभ्यां श्रान्ते ग्लानस्य वेलायामतिक्रामन्त्यां वा ओघेनालोचयेदिति, उक्तं च तत्रैव - "काले अपहृप्पंते, उच्चाए वावि ओहमालोए । वेला गिलाणगस्सवि, अइच्छइ गुरू व उद्दाओ ॥ १ ॥ " 'उच्चा ओ' त्ति उद्वातः श्रान्त इत्यर्थः, ओघाऽऽलोचना च पुरःकर्मपश्चात्कर्मादि नास्ति आधाकर्मादि च नास्तीत्येवंनिवेदनरूपा, त्वरिते कार्ये जाते सति यन्न शुद्ध्यति तावन्मात्रकथनरूपा वा भवति, यतः- “पुरकम्मपच्छकम्मे, अप्प असुद्धे अ ओहमालोए । तुरिअकरणंमि जं से, न सुज्झई तत्तिअं कहए ॥ १ ॥” इति, अल्पशब्दोऽत्राभावपर इति । एवमेषा मानसी वाचिकी चालोचनोक्ता, कायिकी तु गुरोर्भिक्षादर्शने भवति, तस्मात्सर्व| मेवं मनसा वचसा चालोच्य मुखवस्त्रिकया शिरः सपटलं च पतद्वहं प्रमृज्य उद्यानादौ निवसनादूर्द्धं पुष्पफला For Private & Personal Use Only w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy