SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ॥५१॥ लेपैषणा । सा च पात्रैषणाऽविनाभाविनीति तस्यामन्तर्भवतीत्युक्ता पिण्डादिचतुष्टयविशुद्धिः, अनयैव च लेपविधिः साधुगृहीतां दीक्षां निर्वहति, नान्यथा, यतः-"पिण्डं असोहयंतो, अचरित्ती इत्थ संसओ नत्थि । चारित्तंमि भक्तपानअसंते, सवा दिक्खा णिरत्यया ॥१॥” सिजं असोहयंतो०२। वत्थं असोहयंतो० ३ । पत्तं असोहयंतो०४॥ शुद्धिविइदं चोत्सर्गतःसति संस्तरणे ज्ञेयम् , असंस्तरणे तु अशुद्धग्रहणेऽप्यदोषः, यदुक्तं-"संथरणंमि असुद्धम्" इत्यादि पूर्वमुक्तमेव । अथैवं साधुरुद्गमोत्पादनैषणाविषयैर्द्विचत्वारिंशद्दोषै रहितां सकलविधिसहितां च पर्याप्तां भिक्षा गृहीत्वा शोधयित्वा च वसतिमागच्छति, आगच्छतः शोधनविधिश्चायम्-वसतिमभिगच्छन् शून्यगृहे देवकुले वा तदभावे च वसतिद्वारेऽपि साधुर्भक्तं पानकं च शोधयति, शोधयित्वा च यत्तत्र भिक्षाग्रहणकालादृष्टं दृष्टं चापि ग्रहणकाले सागारिकभयान्नोज्झितं मक्षिकाकण्टकादि तत्परित्यजति । यदि भक्तं पानकं वा संसक्तं भवेत् तर्हि तत्परिष्ठाप्य पुनरप्यन्यत् गृह्णाति । एवमसौ परिशुद्ध सति भक्ते उपाश्रयं प्रविशति, यदुक्तमोघनिर्युक्तौ-"सुन्नघर देउले वा असई अ उवस्सयस्स वा दारे । मच्छिगकंटकमाई सोहेत्तुमुवस्सयं पविसे ॥१॥” इति। अन्यभक्तपानग्रहणं च ग्रामे भाजने काले च पर्याप्यमाणे सति करोति । अत्र च पदत्रयनि-15 पन्ना अष्टौ भङ्गा भवन्ति, तेषु च काले पर्याप्यमाणे एव ग्रहणं, नान्यथा, तेन शेषभङ्गचतुष्टये भजना, कालश्च जघन्यतः संज्ञां व्युत्सृज्य शौचजलमात्रके शोषिते प्रत्युपेक्षितासु च सप्तविंशतिमण्डलभूमीषु सूर्योऽस्तमेति, अस्तमिते च सूर्ये शेषोपधिप्रत्युपेक्षणमित्येतल्लक्षणः, उत्कर्षतस्तु संज्ञां व्युत्सृज्यागतस्य चरमपौरुषी प्राप्यते Jain Education Intern For Private & Personel Use Only ww.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy