________________
Jain Education Intel
| इत्येवंखरूपः । प्रविशंश्च वसतौ पादप्रमार्जनं नैषेधिकीत्रयमञ्जलिं च, प्रविष्टश्च दण्डकोपध्योर्निक्षेपे स्थानविशुद्धिं करोति, यदुक्तमोघनिर्युक्तौ - "पायपमज्जणनिसीहिआ य तिन्नि उ करे पवेसंमी । अंजलिठाणविसोही दंडगउवहिस्स निक्खेवे ॥ १ ॥ तत्र नैषेधिकीत्रयं - अग्रद्वारे मध्ये मूलद्वारप्रवेशे चेति, पादप्रमार्जनं च वसतेर्बहिरेव सागारिकाभावे करोति, सति तु तस्मिन् वरण्डकमध्ये प्रविश्य तत्रापि सति मध्यनैषेधिकीस्थाने, तत्रापि च सति मध्ये प्रविश्य करोति, अत एव नैषेधिकीव्याख्यानादनन्तरमेतद्वारं भाष्ये व्याख्यातम्, तथा | च तद्गाथा - "एवं पडुपन्ने पविसओ उ तिण्णि उ णिसीहिआ हुंति । अग्गद्दारे मज्झे, पवेसणे पायसागरिए ॥ १ ॥” इति । तथाऽञ्जलिं गुरोः पुरस्ताद्धस्तोच्छ्रयं शीर्षनामनं, वाचा च नमो खमासमणाणमिति करोति, गुरौ भाजने तु हस्तगते शिरसा प्रणामं 'नमः' इति वाचिकनमस्कारं करोति, न तु हस्तोच्छ्रयं गुरुभाजनस्य पतनभयादिति, यतः - " हत्थुस्सेहो सीसप्पणामणं वाइओ नमुक्कारो । गुरुभायणे पणामो, वायाए नमो न उस्सेहो ॥ १ ॥” इति । प्रविष्टश्च सति उपरि कुज्यस्थानेऽधश्च भुवि प्रसृज्य दण्डकं स्थापयेत्, चोलपटं चोपधेरुपरि पटलानि च पात्रकोपरि, यतः - "उवरि हेट्ठा य पमज्जिऊण लट्ठि ठवेज सट्टाणे । पहं उवहिस्सुवरि, भाय|णवत्थाणि भाणेसु ॥ १ ॥” इति । यदि च कायिकीं व्युत्सिसृक्षुस्तदा सपटलकं पात्रमन्यस्य साधोर्दत्त्वा तां व्युत्सृजेत्, यतः - " जइ पुण पासवणं से, हवेज तो उग्गहं सपच्छागं । दाडं अन्नस्स सचोलपहओ काइअं निसिरे ॥ १ ॥ इत्युक्तः सप्रपञ्च भिक्षाभ्रमणविधिः । इदानीं वसतिप्रवेशानन्तरं यत्कर्त्तव्यं तदाह- 'आगत्ये 'त्या
For Private & Personal Use Only
w.jainelibrary.org