________________
धर्मसंग्र अधिकारः
३
॥ ५० ॥
न वाति न पतति च धूमिका तदा ग्राह्यः । सोऽपि मितः न त्वपरिमितः, गृहीत्वा च वस्त्रेणाच्छाय छारेण वाऽऽक्रम्य ततश्चीवरेण शरावं बद्धा गुरुमूलमागत्य ईर्यापथिकीं प्रतिक्रम्य गुरोरालोचयति । ततो दर्शयित्वा निमन्य च गुरुं खपात्रं लेपयति, तद्विधिश्चैवम् - अधोमुखीकृतस्य भाजनस्य कृत्वोपरि चीरं तदुपरि च रूतपटलं करोति, रूतोपरि च लेपं प्रक्षिप्याङ्गुष्ठप्रदेशिनीमध्यमाभिरङ्गुलीभिर्गृह्णाति, गृहीत्वा च धनचीरपोहलिकानिर्गतेन लेपरसेन पात्रकमालिम्पति, एकं द्वे त्रीणि वा आलिम्प्य च अङ्गुल्या मसृणानि करोति, तानि | चैवं लिम्पति अन्यत्पात्रमुत्सङ्गे स्थापयित्वाऽन्यत्पात्रमङ्गुल्या मसृणयति, एवं वारया २ एकं द्वे चाङ्के स्थापयेत्, अन्यच्चाङ्के मसृणयति, यदा पुनरेकमेवोत्कृष्टलेपेन लिप्तं भवेत्तदा रूढे सति तस्मिन्नेव दिने रङ्गयित्वा पात्रकमुपोषितः पानकमानयति अथासौ ग्लानादीनां वैयावृत्त्यकरः स्यात् तच्च न रूढं ग्लानादयश्च सीदन्ति स्वयं | चोपोषितुमशक्तस्ततोऽभक्तार्थिकसाधूनां भक्तार्थिकानां वाऽहिण्डमानानां लिसं पात्रं दत्त्वा गृहीत्वा चान्यसत्क| मलिसपात्रं हिण्डेत । यद्यन्यः साधुरेवंविधो नास्ति खयमपि च लिप्तपात्रं भक्तपतद्ब्रहो मात्रकं चेति पात्रत्रयं न वोढुं शक्तस्तदा कीटकाद्युपघातरक्षार्थं पात्रं लेपलिप्तानि च घट्टकचीवरशरावाण्यन्यच्छारेण गुण्डयित्वा विजने च मुक्त्वा हिण्डते । अन्ये च साधवस्तदर्थं पानकमानयन्तीति लेपग्रहणलेपानयनपात्रलेपनयतना । अथ | परिकर्मविधिरेवम्-लिप्तपात्रं गोमयच्छारेण गुण्डयित्वा पात्रबन्धरजस्त्राणाभ्यां च परिवेष्ट्य मार्जाराद्याकर्षणभयाददत्त्वा च पात्रबन्धग्रन्थि उष्णे स्थापयति, रात्रौ चात्मसमीपे प्रत्युपेक्षितघटकण्ठादौ, तेषां च घटग्रीवा
Jain Education International
For Private & Personal Use Only
लेपग्रहणविधिः
॥ ५० ॥
www.jainelibrary.org