________________
Jain Education Inti
दिकम्, द्वितीयं कौशेयादि, तृतीयं तूर्णकादि । एकैकं पुनर्यथाकृतात्पपरिकर्मबहुपरिकर्मभेदात्रिधा । तत्र | यथाकृतं एकपदं सीवनादिपरिकर्मरहितं, द्वितीयमेकवारं खण्डित्वा सीवितं, तृतीयं बहुधा खण्डयित्वा सीवि - तं । एषूत्तरोत्तरापेक्षया पूर्वं पूर्वं शुद्धमिति पूर्वपूर्वाभावेऽपरमपरं ग्राह्यम् । तदपि साधुनिमित्तं क्रीतादि न | भवति तदा ग्राह्यं, यदुक्तम् - "जं न तयट्ठा कीअं, नेअ वुअं जं न गहिअमन्नेसिं । आहडपामिचं चित्र, कप्पए साहुणो वत्थं ॥ १ ॥” तत्र 'अं' ति अन्तर्भूतण्यर्थत्वात् वायितं आहृतं च परग्रामादिभ्यस्तन्न ग्राह्यं, हट्टादिभ्योऽप्यानीतं यतिभिरदृष्टं यत्तन्न कल्पं (प्यं), दृष्टं तु कल्पते । तथा वस्त्रेऽपि कोटिद्वयं ज्ञेयं । तत्र - मूलतो यत्यर्थं वायनादिकं वस्त्रस्याविशोधिकोटिः, यत्यर्थं प्रक्षालनादि विशोधिकोटिः, एवं च वस्त्रं कल्पनीयं ज्ञातं तदा | द्वयोस्त(रन्त) योर्गृहीत्वा सर्वतो निरीक्षणीयं प्रान्तबद्ध गृहिसत्कमण्यादिसम्भवात्, गृहस्थस्यापि दर्शनीयं, ततश्च दृष्टे वस्त्रेऽञ्जनखञ्जन लिप्सादिविभागेन शुभाशुभविपाको विचार्य:, तथा चोक्तम् - "अंजणखंजण [कद्दम ]लितो | मूसगभखिअ अग्गिदो अ तुन्नि कुद्दिअ पज्जव, [लीढो] होइ विवाग सुहोऽसुहो वा ॥ १॥ नवभागकए वत्थे, चउरो कोणा य दुन्नि अंता य । दो कन्नावट्टीओ, मज्झे वत्थस्स एगं तु ॥ २ ॥ चत्तारि देवया भागा, दुवे भागा य माणुसा । आसुरा य दुवे भागा, एगो पुण जाण रक्खसो ||३|| देवेसु उत्तमो लाभो, माणुसेसु अ मज्झिमो । आसुरेसु अ गेलन्नं, मरणं जाण रक्खसे ॥ ४ ॥” एवं शुभाशुभविपाकं विचार्य शुभविपाकं वस्त्रं ग्राह्यं तच्च | मूल्यतोऽष्टादशरूपकलक्षणान्यूनं ग्राह्यं, उक्तं च पंचकल्पवृहद्भाष्ये- “ऊणगअट्ठारसगं वत्थं पुण साहुणो अणु
For Private & Personal Use Only
ww.jainelibrary.org