________________
एते च वसतेः सप्त मूलगुणास्तैर्गृहस्थेन खार्थकृतैः सद्भिवसतिर्मूलगुणैर्विशुद्धा भवति, यदुक्तम्-"पिट्टीवंसो दो धारणाओ चत्तारि मूलवेलीओ। मूलगुणहिँ विसुद्धा, साहण अहागडा वसही ॥१॥” इति । उत्तरगु-10 णाश्च-मूलोत्तरगुणा उत्तरोत्तरगुणाश्चेति द्विविधाः, तत्रोपरि तिर्यग्गता वंशास्तदुपरितनं कटादिभिः समन्ततः पार्धाणामाच्छादनं कम्बिकाबन्धनं दर्भादिच्छादनं लिम्पनं द्वारकरणं भूमीसमीकरणं चेति सप्त मूलोत्तरगुणास्तैश्च स्वार्थ कृतैर्मूलोत्तरगुणविशुद्धा भवति, तदुक्तम्-"वंसगकडणुकंबण, छायणलेवणदुवारभूमी अ। परिकम्मविप्पमुक्का, एसा मूलुत्तरगुणेसु ॥१॥” इति । एते चतुर्दशाप्यविशोधिकोटिः, उत्तरोत्तरगुणास्तु विशोधिकोटिस्ते च धूमितधूपितवासितोयोतितबलिकृतावत्तसिक्तसंसृष्टरूपाः, तत्र-धूमिता खट्यादिना धवलीकृता, धूपिताऽगुर्वादिभिः, वासिता पुष्पादिभिः, उयोतिता प्रदीपजालिकादिभिः, बलिकृता कूरादिमोचनैः, अवत्ता छगणलेपनादिना, सिक्ता केवलोदकेन, संसृष्टा संमार्जन्या प्रमार्जिता, एतैरुत्तरोत्तरगुणैः संयतनिमित्तं कृतैर्विशोधिकोटिं गता वसतिः, यतः-“दूमिअधूमिअवासिअ उज्जोइअ बलिकडा अवत्ता य । सित्ता संसट्ठावि अ विसोहिकोडिं गया वसही॥१॥” इति । एवं चोक्तदोषरहितां स्त्रीपशुपण्डकवर्जितां च वसति सेवेतेति तात्पर्य उक्तं च-"मूलुत्तरगुणसुद्धं, थीपसुपण्डगविवजिअं वसहिं । सेविज सबकालं, विव-16 जए हुति दोसा उ ॥१॥” इति । एतदनुसारेण च चतुःशालादिष्वपि मूलोत्तरगुणविभागो विज्ञेयः, तदपेक्षयाऽत्र मूलोत्तरगुणविभागाऽभणनं तु खाध्यायव्याक्षेपपरिहारार्थ, साधूनां प्रायो ग्रामादिष्वेव वासस्य सम्भ
Jain Education Inte
For Private Personel Use Only
Kuw.jainelibrary.org