________________
4
ल्लगसिजासंथारपीढलेवाई। सिज्जायरपिंडो सो, न होइ सेहोवि सोवहिओ॥१॥” इति । सार्थादिवशाच्चैका
सुस्वाऽन्यत्र प्रतिक्रामन्ति तदा द्वयोरपि स्वामिनी शय्यातरौ स्तः, यदा च सकलां रात्रि जागरित्वा सार्थवश || चौरादिभयाद्वाऽन्यत्र गत्वा प्रतिक्रामन्ति तदा मूलवसतिस्वामी शय्यातरो भवतीति विवेकः । यद्यपि च वस
तिखामी साधूनां वसतिं दत्त्वा दूरदेशान्तरं गतस्तथापि शय्यातरः स एव भवति, नान्यः, तदुक्तम्-"दाऊण गेहं तु समजदारो, वाणिजमाईहि उ कारणेहिं । तं चेव अन्नं च वइज देसं, सिन्जायरो तत्थ स एव होइ ॥१॥” इति । किंच-लिङ्गमात्रस्थः शय्यातरपिण्डं त्यजतु मा वा, परं चारित्रिण इव तस्यापि शय्यातरं साधुस्तु वर्जयत्येव, यदुक्तम्-"लिंगत्थस्सवि वजो, तं परिहरतु व भुंजओ वावि । जुत्तस्स अजुत्तस्सवि रसावणो | तत्थ दिटुंतो॥१॥” इति । कालमानं च-अस्या अहोरात्रं परतस्त्वशय्यातरो भवति, यदुक्तम्-"पुच्छे वजेजहोरत्त"ति, ग्लानत्वादिगाढकारणे तु शय्यातरपिण्डोऽपि गृह्यते । तथाचोक्तं प्रवचनसारोद्धारवृत्तौ-"अनागाढे ग्लानत्वे वारत्रयं हिण्डनेऽपि ग्लानयोग्यद्रव्याप्राप्तौ तत्पिण्डो गृह्यते, आगाढे तु शीघ्रमपि, तथा शय्यातरेणात्याग्रहेण निमत्रिते सकृहीत्वा पुनः प्रसङ्गान्निवार्यते, तथा आचार्यादिप्रायोग्ये क्षीरादिद्रव्येऽन्यत्र दुर्लभे तथाऽशिवेऽवमौदर्ये राजचौरादिभये वा तत्पिण्डो गृह्यते” इति । तथा राजपिण्डस्त्वष्टविधो वयः, यतः"असणाईआ चउरो, पाउंछणवत्थपत्तकंबलयं । पुरपच्छिमाण वज्जो, अट्टविहो रायपिंडो उ॥१॥” इति । एवं चाहारशुद्धौ साधूनां नित्यमुपवास एव, “निरवजाहारेणं, साहूणं निचमेव उववासो । देसूणपुच्चकोर्डि,
Jain Education Interie
For Private Personel Use Only
IN
w.jainelibrary.org