SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ॥४६॥ भङ्गी भणनीया, परं चतुर्थ्यां नानात्वं, तस्या अलेपत्वात्संसृष्टाद्यभाव इति सप्स पिण्डैषणाः, पिण्डशब्देनात्र पण्डिषणाः भक्तमुच्यते । पानैषणानां पृथक्कथनात् ता अपीत्थमेव, नवरं चतुर्थ्यां भेदः, सौवीरावश्रावणोष्णोदकतन्दुलो शय्यातरदकादि अलेपकृत्, शेषमिक्षुरसद्राक्षापानाम्लिकादि तु लेपकृदिति, यदुक्तम्-“पाणेसणावि एवं, नवरि चउ- विधिः स्थीइ होइ नाणत्तं । सोवीरायामाई, जलऽलेवाडंति समओत्ति ॥१॥” उक्तजलाभावे च वर्णान्तरादिप्राप्त प्रासुकजलमपि ग्राह्यम् , तदुक्तं दिनचर्यायाम्-"गिण्हिज आरनालं, अहवा धोवण तिदंडउक्कलिवनंतरहपतंपासअसलिलंपि तयभावे ॥१॥" इति पानैषणाः। एवंविधश्च शुद्धोऽपि पिण्डः शय्यातरसम्बन्धी न ग्राह्यः, तत्र शय्या-वसतिस्तया साधुसमर्पितया तरतीति शय्यातरो-वसतिस्वामी, स च द्विधा-प्रभुः प्रभुसंदिष्टश्च, एकैकोऽपि एकानेकभेदाद् द्विधा, तथा चैकः प्रभुरेकः प्रभुसंदिष्टः १ एकः प्रभुरनेकः संदिष्टः २ अनेकः प्रभुरेकः संदिष्टो ३ अनेकः प्रभुरनेकः संदिष्टश्चे ४ ति चतुर्भङ्गी भवति, तत्रोत्सर्गतः सर्वेऽपि शय्यातरा द्वादशविधपिण्डग्रहणे वाः, अपवादतस्तु असंस्तरणे प्रतिदिनमेकैको वयः, यत:-"सागारिअ संदिहो. एगमणेगे चउक्कभयणा उ। एगमणेगे वजा णेगेसु अ ठावए एगं ॥१॥” इति । द्वादशविधस्तु अशन१ पान २ खादिम ३ खादिम ४ पादप्रोञ्छन ५ वस्त्र ६ पात्र ७ कम्बल ८ सूची ९छुरिका १० कर्णशोधन ११नखरदनिका १२ लक्षणः, यतः-"असणाईआ चउरो, पाउंछणवत्थपत्तकंबलयं । सूई छुरि कन्नसोहण नहरणिआ सागरिअपिंडो॥१॥” इति । तृणडगलादिश्च शय्यातरस्यापि कल्पते, तदुक्तम्-"तणडगलछारम Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy