SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter हीता प्रगृहीता उज्झितधर्मा चेति, यतः - "संसट्ट १ मसंसट्टा २ उद्धड ३ तह अप्पलेविया ४ चेव । उग्गहिआ ५ पग्गहिआ ६, उज्झिअधम्मा ७ उ सत्तमिआ ॥ १ ॥” एताः सप्त पिण्डेषणाः, पिण्डस्य-भक्तस्यैषणाःग्रहणप्रकाराः, तत्रासंसृष्टो हस्तोऽसंसृष्टं च मात्रं द्रव्यं पुनः सावशेषं निरवशेषं वेत्यसंसृष्टा भिक्षा, तत्र निरवशेषे पश्चात्कर्मसंभवेऽपि गच्छस्य बालाद्याकुलत्वात्तन्निषेधो नास्ति अत एव सूत्रे तच्चिन्ता न कृता १ । तथा संसृष्टो हस्तो मात्रमपि संसृष्टमिति संसृष्टा भिक्षा, अत्र च संसृष्टासंसृष्टसावशेषैर्द्रव्यैरष्टौ भङ्गास्तेषु | चाष्टमो भङ्गः संसृष्टो हस्तः पात्रं च सावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तु गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति २ । तथा स्वव्यापारेण मूलभाजनाद्भाजनान्तरे भक्तमुद्धृतं, तच्च साधोर्गृह्णत उद्धृता भिक्षा भवति ३, तथाऽल्पलेपा - वल्लचनकादि अल्पशब्दस्याभावपरत्वादलेपा नीरसेत्यर्थः, यद्वा स्तोको लेपः पश्चात्कर्मादिजनितः कर्मबन्धो यस्यां सा अल्पलेपा, तथा चाचाराङ्गम् - " अस्सि खलु | पडिग्गहिअंसि अप्पे पच्छाकम्मे अप्पे पज्जवजाए "त्ति अत्र च पृथुकादिर्गृहीतः, तथा चाल्पं पर्यायजातं अल्पं तुषादि त्यजनीयमित्यर्थः ४ । तथा भोजनसमये शरावादिषु निक्षिप्तं भोक्तुकामस्य ढौकितं तद्गृह्णतो यतेरवगृहीता भिक्षा ५ । तथा भोजनसमये भोक्तुमुपविष्टाय परिवेषितुं परिवेषकेण स्थाल्यादेरुद्धृत्य चडकादिना उत्क्षिप्तं परेण च न गृहीतं प्रव्रजिताय च दापितं यद्वा भोक्त्रा स्वयं भोक्तुं स्वकरेण यद्गृहीतमशनादि तद्गु| हृतः प्रगृहीता भिक्षा ६ । तथा त्यागार्ह भक्तं गृह्णतो यतेरुज्झितधर्मा सप्तमी ७ । आसु च सप्तखपि संसृष्टाद्यष्ट For Private & Personal Use Only w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy