SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥ ४५ ॥ Jain Education Inte ख्यादीनां करं विभज्य कर्त्तव्या, तत्र निम्नमङ्गुलिपर्वरेखा, उन्नतमङ्गुलिपर्वाणि, करतलं च निम्नोन्नतं, यदा च | हस्ते उन्नतस्थानानि उद्वानानि तदा हस्ततलं प्रम्लानं भवति, रेखास्त्वनुद्वानाः, तत्र शुष्कहस्तस्थानानामेकैकवृद्ध्या यथा यस्मिन् काले ग्रहणं भवति तथोच्यते । तरुण्याः स्त्रिय उन्नतसप्तमैकभागे प्रम्लाने सति उष्णकाले भिक्षा गृह्यते, यतः हस्तस्य सोष्मतया कालस्य चोष्णतया यावतोन्नतप्रदेशः शुष्यति तावता निम्नप्रदेशाः सार्द्रा अपि अचित्ता जायन्तेऽतः कल्पते भिक्षाग्रहणम्, हेमन्ते च तस्या एव द्वयोः सप्तमभागयोः शुष्कयोभिक्षाग्रहणं भवति, वर्षासु पुनस्त्रिषु भागेषु, मध्यमायाः स्त्रियो द्वयोर्भागयोरारब्धं चतुर्षु भागेषु संनितिष्ठते, स्थविर्याश्च त्रिषु भागेषु प्रारब्धं पञ्चसु संनितिष्ठते । एवं सामान्येन त्रिविधपुरुषस्य द्वयोर्भागयोरारब्धं षट्सु भागेषु संनितिष्ठते । तत्र तरुणस्य ग्रीष्मादिषु क्रमेण द्वित्रिचतुर्षु भागेषु शुष्केषु ग्रहणं, मध्यमस्य त्रिच तुष्पञ्चसु स्थविरस्य च चतुष्पञ्चषट्सु इति । नपुंसकस्य पुनस्त्रिभागेषु प्रारब्धं सप्तभागेषु संनितिष्ठते, तत्र तरुणस्य ग्रीष्मादिषु क्रमात्रिचतुष्पञ्चसु भागेषु शुष्केषु ग्रहणं भवति, मध्यमस्य चतुष्पञ्चषट्सु, स्थविरस्य तु पञ्चषट्सप्तसु सर्वस्मिन् हस्ते शुष्के ग्रहणमित्यर्थः ॥१०॥ अथ भावद्वारं- भावश्चाध्यवसायः, स चाहारग्रहेऽप्रशस्तो न कार्यः, प्रश| स्तश्च कार्यः, तत्राप्रशस्तो भावस्तस्य भवति यो वर्णबलादिनिमित्तमाहारं गृह्णाति, नत्वाचार्यबालवृद्धग्लानाद्यर्थं, यस्तु आचार्याद्यर्थं गृह्णाति स ज्ञानादिभागी महाभाग उच्यते ११, इति विचारितैकादशभिर्द्वारैर्ग्रहणैषणा । साच पिण्डविषया पानविषया च प्रत्येकं सप्तविधा भवति, तद्यथा - असंसृष्टा संसृष्टा उद्धृता अल्पलेपा अवगृ For Private & Personal Use Only आहारान्वेषणे स्थानादी न्येकादशद्वाराणि 1184 11 w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy