________________
धर्मसंग्रहे अधिकारः
३
॥ ४५ ॥
Jain Education Inte
ख्यादीनां करं विभज्य कर्त्तव्या, तत्र निम्नमङ्गुलिपर्वरेखा, उन्नतमङ्गुलिपर्वाणि, करतलं च निम्नोन्नतं, यदा च | हस्ते उन्नतस्थानानि उद्वानानि तदा हस्ततलं प्रम्लानं भवति, रेखास्त्वनुद्वानाः, तत्र शुष्कहस्तस्थानानामेकैकवृद्ध्या यथा यस्मिन् काले ग्रहणं भवति तथोच्यते । तरुण्याः स्त्रिय उन्नतसप्तमैकभागे प्रम्लाने सति उष्णकाले भिक्षा गृह्यते, यतः हस्तस्य सोष्मतया कालस्य चोष्णतया यावतोन्नतप्रदेशः शुष्यति तावता निम्नप्रदेशाः सार्द्रा अपि अचित्ता जायन्तेऽतः कल्पते भिक्षाग्रहणम्, हेमन्ते च तस्या एव द्वयोः सप्तमभागयोः शुष्कयोभिक्षाग्रहणं भवति, वर्षासु पुनस्त्रिषु भागेषु, मध्यमायाः स्त्रियो द्वयोर्भागयोरारब्धं चतुर्षु भागेषु संनितिष्ठते, स्थविर्याश्च त्रिषु भागेषु प्रारब्धं पञ्चसु संनितिष्ठते । एवं सामान्येन त्रिविधपुरुषस्य द्वयोर्भागयोरारब्धं षट्सु भागेषु संनितिष्ठते । तत्र तरुणस्य ग्रीष्मादिषु क्रमेण द्वित्रिचतुर्षु भागेषु शुष्केषु ग्रहणं, मध्यमस्य त्रिच तुष्पञ्चसु स्थविरस्य च चतुष्पञ्चषट्सु इति । नपुंसकस्य पुनस्त्रिभागेषु प्रारब्धं सप्तभागेषु संनितिष्ठते, तत्र तरुणस्य ग्रीष्मादिषु क्रमात्रिचतुष्पञ्चसु भागेषु शुष्केषु ग्रहणं भवति, मध्यमस्य चतुष्पञ्चषट्सु, स्थविरस्य तु पञ्चषट्सप्तसु सर्वस्मिन् हस्ते शुष्के ग्रहणमित्यर्थः ॥१०॥ अथ भावद्वारं- भावश्चाध्यवसायः, स चाहारग्रहेऽप्रशस्तो न कार्यः, प्रश| स्तश्च कार्यः, तत्राप्रशस्तो भावस्तस्य भवति यो वर्णबलादिनिमित्तमाहारं गृह्णाति, नत्वाचार्यबालवृद्धग्लानाद्यर्थं, यस्तु आचार्याद्यर्थं गृह्णाति स ज्ञानादिभागी महाभाग उच्यते ११, इति विचारितैकादशभिर्द्वारैर्ग्रहणैषणा । साच पिण्डविषया पानविषया च प्रत्येकं सप्तविधा भवति, तद्यथा - असंसृष्टा संसृष्टा उद्धृता अल्पलेपा अवगृ
For Private & Personal Use Only
आहारान्वेषणे स्थानादी
न्येकादशद्वाराणि
1184 11
w.jainelibrary.org