SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter निरीक्षणीयम्, अत्रापि गमनवत् ज्ञेयम् ५ । तथा प्राप्त इति प्राप्तस्य गृहिणो हस्त उदकार्द्रा न वेति निरीक्ष्यं अथवा पात्रं - गृहिसम्बन्धिभाजनं ऊर्द्धमधः पार्श्वतश्च निरीक्ष्यम्, अथवा पात्रं - भिक्षाद्रव्यं तन्निरीक्ष्यं संसक्तं न वेति । अत्र च वत्सस्नुषादृष्टान्तः ६ । तथा 'परिअत्ते'त्ति परावृत्तमधोमुखं कृतं गृहस्थभाजनं निरीक्ष्यं, यदि उदकार्द्र त्रसयुक्तं वा स्यात्तदा तेन न ग्राह्यं ७ । तथा 'पडिअ ' त्ति पतितः पात्रे पिण्डो निरूपणीयः किं | कूरखोह इव स्वाभाविकः ? किंवा सक्तुमुद्गपिण्ड इव कृत्रिमः ?, यदि कृत्रिमं पिण्डं मोदकादि स्फोटयित्वा न निरूपयति तदा संयतात्मविराधना भवति, मध्ये भूषणादिसम्भवात् ८ । तथा 'गुरुअ'न्ति गृहस्थभाजनं तत्पिधानं वा गुरुतरं भवति, तदा तदुत्क्षेपणे निक्षेपणे च द्वातुः कटिभङ्गः पतने च पादभङ्गो भवतीति गुरुभाजनेन न ग्राह्यम् ९ । तथा 'तिह' त्रिधा - ग्रीष्महेमन्तवर्षाभेदात् कालः, दातापि स्त्रीपुंनपुंसक भेदात्रिधा, तत्र सोष्मा स्त्री, मध्यमः पुरुषः, शीतलतनुश्च नपुंसकः । तथा पुरःकर्म उदकार्द्र सस्निग्धं चेति पुरः कर्मापि त्रिविधं तत्र पुरः कर्म भिक्षादानात् प्राक् पात्रक्षालनादि, उदकार्ड गलडिन्दुभाजनादि, सस्निग्धं बिन्दुरहितमार्द्र चेति, एकैकमपि सचित्ताचित्तमिश्रभेदात्रिविधम्, तत्र पुरः कर्मोदकाद्वयोस्तु न ग्रहणम्, अचित्तसनिग्धे च ग्रहणमेवेति न प्ररूपणा कार्या, प्ररूपणा तु सचित्तमिश्रसस्निग्धे हस्ते कार्या, सा चेत्थम् - हस्ते सस्निग्धं किञ्चिन्म्लानं किञ्चिदुद्वानं किञ्चिदनुद्वानमिति प्रायेण त्रिविधं, तत एकैकशुष्क भागवृद्ध्या पूर्वानुपूर्व्या एकैकशुष्कभागहान्या वा पश्चानुपूर्व्या ग्रहणं कर्त्तव्यं, एकैकभागवृद्धिस्तु निम्नमुन्नतं निम्नोन्नतं चेत्यङ्गीकृत्य सप्तधा For Private & Personal Use Only w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy