________________
धर्मसंग्रहे अधिकारः ३
॥ ४२ ॥
Jain Education Inter
सारोद्धारवृत्तायुक्तः - बुल्युपरि विशालमुखे सर्वतो मृत्तिकया लिप्तावकाशे च कटाहेऽचिरप्रक्षिप्त इक्षुरसोऽनत्युष्णो दीयमानः कल्प्यः, मृदा लिसत्वाद्दीयमानेक्षुरसस्य बिन्दुर्न चुलीस्थवहाँ पतति, विशालमुखत्वा चोदञ्चनपिठरस्य तत्कर्णेऽलगनान्न भङ्गः, अचिरक्षिप्तत्वाच्च नात्युष्ण इति दातुर्ग्रहीतुश्चादहनमिति ३ । सच्चित्तेन फलादिना स्थगितं- पिहितं इदमप्यनन्तरं परम्परं च तत्र परम्परं यतनया ग्राह्यं ४ । दानानुचितं सचित्तेषु पृथिव्यादिषु अचित्तेषु वा केषुचित्पात्रेषु निक्षिप्य तेन रिक्तीकृतपात्रकेणैव भक्तं ददतः संहृतम्, अत्र सचित्ते सचित्तं संहृतमित्यादि चतुर्भङ्गयां तुर्यः शुद्धः ४ । 'दायगन्ति बालवृद्धपण्डकवेपमानज्वरितान्धमत्तोन्मत्तकरचरण| निगडितपादुकारूढकण्डकपेषक भर्जककर्त्तकलोढकवीङ्खकपिञ्ज कहलकच्यालोडक भोजकषङ्कायविराधका दातृत्वेन प्रतिषिद्धाः, या च स्त्री वेलामासवती गृहीतबाला बालवत्सा वा एभ्योऽन्नादि ग्रहीतुं साधोर्न कल्पते, अत्रोत्सर्गापवादावनुपदमेव स्फुटी भविष्यतः ६ । देयद्रव्यं खण्डादि सचित्तेन धान्यकणादिना मिश्रं ददत उन्मिश्रं ७ । देयद्रव्यं मिश्रमचित्तत्वेनापरिणमनाद परिणतं, तत्सामान्यतो द्रव्यभावाभ्यां द्विधा, एकैकं पुनर्द्विधा, दातृविषयं गृहीतृविषयं चेति, तत्र द्रव्यरूपमपरिणतं अप्रासुकमेव, तच्च दातुः सत्तायां वर्त्तमानं दातृविषयं ग्रहीतुः सत्तायां च ग्रहीतृविषयं, भावापरिणतं तु द्वयोर्देयस्वामिनोर्मध्यादेकस्य दानाध्यवसायाभावात् यतेर्वा साधुसङ्घाटकमध्यादेकस्य मनसि शुद्धं परिणतं नान्यस्येति ग्रहीतृविषयं भावतोऽपरिणतं एतच्च साधूनामकल्प्यं शङ्कितत्वात् कलहादिदोषसंभवाच्च । इह दातृभावापरिणतस्य साधारणानिसृष्टस्य च दातृसमक्षासमक्षकृतो
For Private & Personal Use Only
गवेषणाग्रहणैषणाग्रासैषणादोषाः
॥ ४२ ॥
www.jainelibrary.org