________________
लगवेषणैषणा । अथ ग्रहणैषणा तदोषाश्च दश, तदुक्तं पिण्डविशुद्धौ-"इअ वुत्ता सुत्ताओ, बत्तीस गवेसणे
सणादोसा । गहणेसणदोसे दस, लेसेण भणामि ते अ इमे ॥१॥ संकिअ१ मक्खिअ २निक्खित्त ३, पि-18 हिअ ४ साहरिअ५ दायगु ६ म्मिस्से ७ । अपरिणय ८ लित्त ९ छड्डिअ १०, एसणदोसा दस हवंति ॥२॥" आधाकर्मादिशङ्काकलुषितो यदक्षायादत्ते तच्छङ्कितं, अत्र शङ्कितो ग्रहणे भोजने चेत्यादिका चतुर्भङ्गी, तत्राद्यो ग्रहणकाले लज्जावशादपृच्छायां, भोजनकालेऽपि शङ्कानपगमे भवति । ग्रहणे शङ्कितः कथञ्चित्तदवगमानिःशङ्कितश्च भोजने इति द्वितीयः २। निःशङ्कितो ग्रहणे कुतोऽपि हेतोर्दोषाशङ्कायाः शङ्कितो भोजने चेति तृतीयः ३ । निःशङ्कितो ग्रहणे भोजने चेति तुर्यः ४, तेषु द्वितीयतुयौं शुद्धौ निःशङ्कितभोजनात्, तत्र चोद्गमदोषषोडशकं म्रक्षणाद्येषणानवकं चेति पञ्चविंशतीनां मध्ये येन दोषेण शङ्कितं भवति तं दोषमानोति १ पृथिव्युदकवनस्पतिभिः सचित्तैरचित्तैरपि मध्वादिभिर्गर्हितैराश्लिष्टं यदन्नादि तन्नक्षितं, अत्र च गर्हितद्रव्यैर्मक्षितं सर्वथाऽकल्प्यं, घृतादिना म्रक्षितं तु लग्नकीटिकादियतनायां कल्प्यमपि, अत्र हस्तपात्रखरण्टनविषया चतुर्भङ्गी, तुर्यो भङ्गः शुद्धः, शेषेषु पुरःकर्मादिदोषसंभवादशुद्धता, तत्र पुरःकर्म भक्तदानात् प्राक् यति| निमित्तं हस्तादिधावनं, पश्चाद्धावनं च पश्चात्कर्मेति २। पृथव्युदकतेजोवायुवनस्पतित्रसेषु यदन्नाद्यचित्तमपि
स्थापितं तन्निक्षिप्तं, तच्चानन्तरम [व्यवधानेन परम्परं वस्त्वन्तर ] व्यवधानेनेति षट्स्वपि खयमभ्यूह्यं, तत्र |परम्परनिक्षिप्तं सचित्तसङ्घपरिहारेण यतनया ग्राह्य, तेजस्काये परम्परनिक्षिप्तस्य ग्रहणेऽयं विशेषः प्रवचन
For Private
Jain Education
INTww.jainelibrary.org
Personal Use Only