________________
तं. वै. प्र.
11 88 11
Jain Education
'उद्धि० भिणि० पाग०' उद्धृते निष्कासिते काकादिभिर्नयने - लोचने यस्य यस्मिन् यस्माद्वा तदुद्धृतनयनं, खगमुखैः- विहगतुण्डैः 'विकट्टियं'ति विकर्त्तितं विशेषेण स्थाने स्थाने पाटितं खगमुखविकर्त्तितं विप्रकीर्णी - अवकीर्णौ विरलावित्यर्थः 'बाहुलयं' ति बाहू -प्रवेष्टौ यस्य शवस्य तद् विप्रकीर्णबाहु 'अंतविकट्टियमालं ति विकर्षितान्त्रमाल शृगालादिभिरिति 'सीसघडीपागडी' त्ति प्रकटया शीर्षघटिकया-तुम्बलिकया घोरं रौद्रं ॥ २९ ॥ 'भिणि०' 'भिणिभिणिभणत 'त्ति धातूनामनेकार्थत्वादुत्पद्यमानः शब्दो यत्र तत् भिणिभिणभणच्छन्दं मक्षिकादिभिर्गणगणायमानमित्यर्थः, विसर्पद्-अङ्गादिशिथिलत्वेन विस्तारं व्रजत् 'सुलुसु लिंत मंसोड' ति सुलुसुलायमानमांसपुढं 'मिसिमिसिमिसंतकिमियं ति मिसिमिसित्ति - मिसन्तः शब्दं कुर्वन्तः कृमयो यत्र तत् मिसिमिसिमिसत्कृमिकं 'थिविधिविधिविअंतबीभच्छं 'ति छबछवायमानैरन्त्रैवभत्सं - रौद्रमित्यर्थः ॥ ३० ॥ 'पग०' प्रकटिताः - प्रकटत्वं प्राप्ताः पांशुलिका यत्र तत्प्रकटितपांशुलिकं, विकरालं-भयोत्पादकं, शुष्काश्च ताः सन्धयश्च शुष्कसन्धयस्तासां सङ्घातः - समुदायो यत्र तच्छुकसन्धिसङ्घातं पतितं गर्त्तादौ निश्चेतनकं चैतन्यविवर्जितं शरीरं वपुः एतादृशं - पूर्वोक्तधर्मयुक्तं त्वं 'जाण'त्ति जानीहि 'जाणे' इति पाठे तु निश्चेतनकं शरीरमहमीदृशं जानामीति ॥ ३१ ॥ 'बच्चाउ० ' नवभिः स्रोतोभिः परिग लद्भिः वर्चस्कात्- गूथात् अशुचितरं- अपवित्रतमं 'आमगमल्ल गरूवे 'त्ति अपक्वशरावतुल्ये शरीरे निर्वेदं - वैराग्यं व्रजत, विष्णुश्रीशरीरे विक्रमयशोराजस्येव ॥ ३२॥ 'दो हत्था०' द्वे हस्ते द्वे पादे 'सीसं उच्चंपियं' ति शीर्षमुत्-प्रा| बल्येन चम्पितं यत्र तच्छीषच्चम्पितं तस्मिन्, यद्वा-शीर्षेणोत् प्राबल्येन चम्पितं - आक्रमितं यत्तत् तथा तस्मिन्, प्राकृतत्वाद
For Private & Personal Use Only
शबशरी
| रयोः स्व
रूपं गा.
११३-१२१ सू. १८
॥ ४४ ॥
www.jainelibrary.org